पृष्ठम्:शङ्करदिग्विजयः.djvu/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
76
[सप्तमः
श्रीमच्छङ्करदिग्विजये

आमज्जतां किल तनूमसितां सितां च कर्तुं कलिन्दसुतया कलितानुषङ्गाम् ।
अह्नाय जन्हुतनयामथ निन्हुताघां मध्येप्रयागमगमन्मुनिरर्थमार्गम् ॥ ६३

गङ्गाप्रवहैरुपरुद्धवेगा कलिन्दकन्या स्तिमितप्रवाहा ।
अपूर्वसख्यागतलज्जयेव यत्राधिकं भाति विचित्रपाथाः ॥ ६४

अन्तेवसद्भिरमलच्छविसम्पदायमध्येतुमाश्रितजलां कुहचिन्मरालैः ।
चक्रद्वयेन रजनीसहवाससौख्यसंशीलनाय किल संवलितां परत्र ॥ ६५

यत्राप्लुता दिव्यशरीरभाज आचन्द्रतारं दिवि भोगजातम् ।
संभुञ्जते व्याधिकथानभिज्ञाः प्राहेममर्थं श्रुतिरेव साक्षात् ॥

अज्ञातसंभवतिरोधिकथाऽपि वाणी यस्याः मितासिततयैव गृणाति रूपम् ।
भागीरथीं यमुनया परिचर्यमाणामेतां विगाह्य मुदितो मुनिरित्यभाणीत् ॥

सिद्धापगे पुरविरोधिजटोपरोधक्रुद्धा कुतः शतमदःसदृशान् विधत्से ।
बद्धान किं नु भवितासि जटाभिरेषामद्धा जडपकृतयो न विदन्ति भावि ॥

सन्मार्गवर्तनपराऽपि सुरापगे त्वमस्थीनि नित्यमशुचीनि किमाददासि ।
आ ज्ञातमम्ब हृदयं तव सज्जनानां प्रायः प्रसाधनकृते कृतमज्जनानाम् ॥

स्वापानुषङ्गजडताभरिताञ्जनौघान् स्वापानुषङ्गजडताविधुरान्विधत्से ।
दूरीभवद्विषयरागहृदोऽपि तूर्णं धृर्तावतंसंयसि देवि क एष मार्गः ॥ ७०

इति स्तुवंस्तापसराट् त्रिवेणीं शाट्या समाच्छाद्य कटीं कृपीटे ।
दोर्दण्डयुग्मोद्धृतवेणुदण्डोऽघमर्षणस्नानमना बभूव ॥ ७१

सस्नो प्रयागे सह शिष्यसंधैः स्वयं कृतार्थों जनसंग्रहार्थी ।
अस्मारि माताऽपि च सा पुपोष दधार या दुःखपमसोढ भूरि ॥ ७२

अनुष्ठितिं द्रागवसाय्य वातैः कल्हारशीतैरुपसेव्यमानः ।
तीरे विशश्राम तमालमालिन्यत्नान्तरेऽश्रूयत लोकवार्ता । ७३

गिरेवप्लुत्य गतिः सतां यः प्रामाण्यमाम्नायगिरामवादीत् ।
यस्य प्रसादात्त्रिदिवौकसोऽपि प्रपेदिरे प्राक्तनयज्ञभागान् ॥ ७४