पृष्ठम्:शङ्करदिग्विजयः.djvu/८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
74
[सप्तमः
श्रीमच्छङ्करदिग्विजये

न साहसं तात भवानकार्षीयत्सूत्रभाष्यं गुरुणा विनीतः ।
विचार्यतां सूत्रदुरुक्तमत्रेत्येतन्महत्साहसमित्यवैमि ॥ ४१

मीमांसकानामपि मुख्यभूतो वेत्थाखिलव्याकरणानि विद्वन् ।
विनिःसरेत्ते वदनायतीन्दो गोविन्दशिष्यस्य कथं दुरुक्तम् ॥४२

न प्राकृतस्त्वं सकलार्थदर्शी महानुभावः पुरुषोऽसि कश्चित् ।
यो ब्रह्मचर्याद्विषयाद्विवार्य पर्यव्रजः सूर्य इवान्धकारान् ॥ ४३

बह्वर्थगर्भाणि लघूनि यानि निगूढभावानि च मत्कृतानि ।
त्वामेवमित्थं विरहय्य नास्ति यस्तानि सम्यग्विवरीतुमीष्टे ॥ ४४

निसर्गदुर्ज्ञानतमानि को वा सूत्राण्यलं वेदितुमर्थतः सन् ।
क्लेशस्तु तावान् विवरीतुरेषां यावान् प्रणेतुर्विबुधा वदन्ति ॥ ४५

भावं मदीयमवबुध्य यथावदेवं
भाष्यं प्रणेतुमनलं भगवानपीशः ।
सांख्यादिनाऽन्यथयितं श्रुतिमूर्धवर्मो-
द्धर्तुं कथं परशिवांशमृते प्रभुः स्यात् ॥ ४६

रोषानुषङ्गकलयाऽपि सुदूरमुक्तो
धत्सेऽधिमानसमहो सकला: कलाश्च ।
सर्वात्मना गिरिजयोपहितस्वरूपः
शक्यो न वर्णयितुमद्भुतशङ्करस्त्वम् ॥ ४७

व्याख्याप्यसंख्यैः कविभिः पुरैतद्वयाख्यास्यते कैश्चिदितः परं च ।
भवानिवास्मद्धृदयं किमेते सर्वज्ञ विज्ञातुमलं निगूढम् ॥ ४८

व्याख्याहि भूयो निगमान्तविद्यां विभेदवादान् विदुषो विजित्य ।
ग्रन्थान् भुवि ख्यापय सानुबन्धानहं गमिष्यामि यथाभिलाषम् ॥ ४९

इत्युक्तवन्तं तमसाववोचत् कृतानि भाष्याण्यपि पाठितानि ।
ध्वस्तानि सम्यक्कुमतानि धैर्यादितः परं किं करणीयमस्ति ॥ ५०

मुहूर्तमात्रं मणिकर्णिकायां विधेहि सद्वत्सल सन्निधानम् ।
चिराद्यतेऽहं परमायुषोऽन्ते त्यजामि यावद्वपुरद्य हेयम् ॥ ५१