पृष्ठम्:शङ्करदिग्विजयः.djvu/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
सर्गः ६]
73
व्यासदर्शनादिचरितवर्णनम्

द्वीपे क्वचित् समुदयन्नृतमेव धाम शाखासहस्रसचिवः शुकसेव्यमानः ।
उल्लासयत्यहह यस्तिलको मुनीनामुच्चैः फलानि सुदृशां निजपादभाजाम् ॥

धत्से सदाऽऽतिशमनाय हृदा गिरीशं गोपायसेऽधिवदनं च चिरन्तनीर्गाः ।
दूरीकरोषि नरकं च दयार्द्रदृर्ष्टया कस्ते गुणान् गदितुमद्भौ तकृष्ण शक्तः ॥

यमामनन्ति श्रुतयः पदार्थं न सन्न चासन्न बहिर्न चान्तः ।
स सच्चिदानन्दघनः परात्मा नारायणस्त्वं पुरुषः पुराणः॥ ३१

इति स्तुतस्तेन यथाविधानमासेदिवान् विष्टरमात्मनिष्ठः ।
द्वैपायनः प्रश्रयनम्रपूर्वकार्यं यतीशानमिदं बभाषे ॥ ३२

त्वमस्मदादेः पदवीं गतोऽभूरखण्डपाण्डित्यमबोधयं ते ।
शुकर्षिवत् प्रीतिकरोऽसि विद्वन् पुरेव शिष्यैः सह मा भ्रमीस्त्वम् ॥ ३३

कृतं त्वया भाष्यमितीन्दुमौलेः सभाङ्गणे सिद्धमुखान्निशम्य ।
हृदा प्रहृष्टेन दिदृक्षया ते दृदगध्वनीनः प्रशमिन्नभूवम् ॥ ३४

इत्थं मुनीन्द्रवचनश्रवणोत्थहर्षं रोमाञ्चपूरमिषतो बहिरुत्प्लवन्तम् ।
बिभ्रत्तमभ्ररुचिमाख्यददभ्रशक्तिं श्रीशङ्करः शुकमतार्णवपूर्णचन्द्रः ॥३५

सुमन्तुपैलप्रथमा मुनीन्द्रा महानुभावा ननु यस्य शिष्याः ।
तृणाल्लघीयानपि तत्र कोऽहं तथाऽपि कारुण्यमदर्शि दीने ॥ ३६

सोऽहं समस्तार्थविवेचकस्य कृत्वा भवत्सूत्रसहस्ररश्मेः ।
भाष्यप्रदीपेन महर्षिमान्य नीराजनं धृष्टतया न लज्जे ॥

अकारि यत्साहसमात्मबुद्धया भवत्पशिष्यव्यपदेशभाजा ।
विचार्य तत्सूक्तिदुरुक्तिजालमर्हः समीकर्तुमिदं कृपालुः ॥

इत्थं निगद्योपरतस्य हस्ताद्धस्तद्वयेनाऽऽदरतः स भाष्यम् ।
आदाय सर्वत्र निरैक्षतासौ प्रसादगांभीर्यगुणाभिरामम् ॥ ३९

सूत्रानुकारिमृदुवाक्यनिवेदितार्थं स्वीयैः पदैः सह निराकृतपूर्वपक्षम् ।
सिद्धान्तयुक्तिविनिवेशिततत्स्वरूपं दृष्ट्वाऽभिनन्द्य परितोषवशादवोचत् ॥