पृष्ठम्:शङ्करदिग्विजयः.djvu/७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
72
[षष्ठः
श्रीमच्छङ्करदिग्विजये

शार्दूलचर्मोद्वहनेन भूतेरुध्दूलनेनापि जटाच्छटाभिः ।
रुद्राक्षमालावलयेन शम्भोरर्धासनाध्यासनसख्यपात्रम् ॥ १८

अद्वैतविद्यासृणितीक्ष्णधारावशीकृताहंकृतिकुञ्जरेन्द्रम् ।
स्वशास्त्रशङ्कूज्ज्वलसूत्रदामनियन्त्रिताकृत्रिमगोसहस्रम् ॥ १९

तत्तदृगत्युज्ज्वलकीर्तिशालिशिष्यालिसंशोभितपार्श्वभागम् ।
कटाक्षबीक्षामृतवर्षधारानिवारिताशेषजनानुतापम् ॥

विलोक्य वाचंयमसार्वभौमं स शङ्करोऽशङ्कितदर्शनं तम् ।
गुरुं गुरूणामपि हृष्टचेताः प्रत्युद्ययौ शिष्यगणैः समेतः ॥ २१

अत्यादराच्छात्रगणैः सहासौ प्रत्युद्गतस्तच्चरणौ प्रणम्य ।
यत्यग्रगामी विनयी प्रहृष्यन्नित्यब्रवीत्सत्यवतीसुतं सः ॥ २२

द्वैपायन स्वागतमस्तु तुभ्यं दृष्ट्वा भवन्तं चरिता मयाऽर्थाः ।
युक्तं तदेतत्त्वयि सर्वकालं परोपकारव्रतदीक्षितत्त्वात् ॥ २३

मुने पुराणानि दशाष्ट साक्षाच्छ्रुत्यर्थर्गर्भाणि सुदुष्कराणि ।
कृतानि पद्यद्वयमत्र कर्तुं को नाम शक्नोति सुसंगतार्थम् ॥

वेदार्णवं व्यतियुतं व्यदधाश्चतुर्धा
शाखाप्रभेदनवशादपि तान् विभक्तान् ।
मन्दाः कलौ क्षितिसुरा जनितार एते
वेदान् ग्रहीतुमलसा इति चिन्तयित्वा ॥ २५

एष्यद्विजानासि भवन्तमर्थं गतं च सर्वं न न वेत्सि यत्तत् ।
नो चेत्कथं भूतभवद्भविष्यकथाप्रबन्धान् रचयेरजानन् । २६

आभासयन्नन्तरमङ्गमान्ध्यं स्थूलं च सूक्ष्मं बहिरन्तरं च ।
अपानुदन् भारतशीतरश्मिरभूदपूर्वो भगवत्पयोधेः ॥ २७

वेदाः षडङ्गं निखिलं च शास्त्रं महान् महाभारतवारिराशिः ।
त्वत्तः पुराणानि च संबभूवुः सर्वं त्वदीयं खलु वाङ्मयाख्यम् ॥ २८