पृष्ठम्:शङ्करदिग्विजयः.djvu/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
सर्गः ६]
67
संन्यासग्रहणम्

सर्गः ६] संन्यास ग्रहणम् 67 कुदृष्टितिमिरस्फुरत्कुमतपङ्कमग्नां पुरा पराशरभुवा चिराद् बुधमुदे बुधेनोध्दृताम् । अहो बत जरद्गवीमनघभाष्यमूक्तामृतै- रपङ्कयति शङ्करः प्रणतशङ्करः सादरम् ।।८४

त्रैलोक्यं ससुखं क्रियाफलपयो भुङ्क्ते ययाऽऽविष्कृतं यस्या वृद्धतरे महीसुरगृहे वासः प्रवृद्धाध्वरे । तां पङ्कप्रसृते कुतर्ककुहरे घारैः खरैः पातितां निष्पङ्कामकरोत्स भाष्यजलधेः प्रक्षाल्य सूक्तामृतैः ॥ ८५

मिथ्या वक्तीति कैश्चित्पुरुषमुपनिषद्दूरमुत्सारिताऽभू- दन्यैरस्मिन्नियोज्यं परिचरितुमसाबहतीति प्रणुन्ना । अर्थाभासं दधानैर्मृदुभिरिव परैर्वञ्चिता चोरिताथै- र्विन्दत्यानन्दमेषा सुचिरमशरणा शङ्करार्यं प्रपन्ना ॥ ८६

हन्तुं बौद्धोऽन्वधावत्तदनु कथमपि स्वात्मलाभः कणादा- ज्जातः कौमारिलायैर्निजपदगमने दर्शितं मार्गमात्रम् । सांख्यैर्दुःखं विनीतं परमथ रचिता प्राणधृत्यर्हताऽन्यै- रित्थं खिन्नं पुमांसं व्यधित करुणया शङ्करायः परेशम् ॥ ८७

ग्रस्तं भूतैर्न देवं कतिचन दहशुः के च दृष्ट्वाऽप्यधीराः केचिद्भूतैर्वियुक्तं व्यधुरथ कृतिनः केऽपि सर्वैर्विमुक्तम् । किन्त्वेतेषामसत्वं न विदधुरजहान्नैव भीतिं ततोऽसो तेषामुच्छिद्य सत्तामभयमकृत तं शङ्करः शङ्करांशः ॥

चार्वाकैर्निन्हुतः प्राग्बलिभिरथ मृषा रूपमापाद्य गुप्तः काणादैर्हा नियोज्यो व्यरचि बलवताऽऽकृष्य कौमारिलेन । सांख्यैराकृष्य हृत्वा मलमपि रचितो यः प्रधानैकतन्त्रः कृष्ट्वा सर्वेश्वरं तं व्यतनुत पुरुषं शङ्करः शङ्करांशः ।।

वाचः कल्पलताः प्रसूनसुमनःसन्दोहसन्दोहनाः भाष्ये भूष्यतमे समीक्षितवतां श्रेयस्करे शांकरे ।