पृष्ठम्:शङ्करदिग्विजयः.djvu/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
68
[षष्ठः
श्रीमच्छङ्करदिग्विजये


भाष्याभासगिरो दुरन्वयगिराऽऽश्लिष्टा विसृष्टा गुणै-
रिष्टाः स्युः कथमम्बुजासनवधूदौर्भाग्यगर्भीकृताः ॥ ९०

कामं कामकिरातकार्मुकलतापर्यायनिर्यातया
नाराचच्छटया विपाटितमनोधैर्यैर्धिया कल्पितान् ।
आचार्याननवर्यनिर्यदभिदासिद्धान्तशुद्धान्तरो
धीरो नानुसरीसरीति विरसान्ग्रन्थानबन्धापहान् ॥ ९१

सुधास्यन्दाहन्ताविजयिभगवत्पादरचना
समस्कन्धान् ग्रन्थान् रचयति निबद्धा यदि तदा ।
विशङ्का भङ्गानां मृडमुकुटशृङ्गाटसरितः
कृतौ तुल्या कुल्या नियतमुपशल्याहतगतिः ।। ९२

यया दींनाधीना घनकनकधारा समरचि
प्रतीतिं नीताऽसौ शिवयुवतिसौन्दर्यलहरी ।
भुजङ्गो रौद्रोऽपि श्रुतभयहृदाधायि सुगुरो-
गिरां धारा सेयं कलयति कवेः कस्य न मुदम् ॥ ९३

गिरां धारा कल्पद्रुमकुसुमधारा परगुरो-
स्तदर्थाली चिन्तामणिकिरणवेण्या गुणनिका ।
अभङ्गव्यङ्गयौघः सुरसुरभिदुग्धोर्मिसहभू-
दिवं भव्यैः काव्यैः सृजति विदुषां शङ्करगुरुः ॥ ९४

वाचा मोचाफलाभाः श्रमशमनविधौ ते समर्थास्तदर्था
व्यङ्गचं भङ्गयन्तरं तत्खलु किमपि सुधामाधुरीसाधुरीतिः ।
मन्ये धन्यानि गाढं प्रशमिकुलपतेः काव्यगव्यानि भव्या-
न्येक श्लोकोऽपि येषु प्रथितकविजनानन्दसन्दोहकन्दः ॥ ९५

वाग्गुम्भैः कुरुविन्दकन्दलनिभैरानन्दकन्दैः सता-
मर्थौघैररविन्दवृन्दकुहरस्यन्दन्मरन्दोज्ज्वलैः ।
व्यङ्गयैः कल्पतरुप्रफुल्लसुमनःसौरभ्यगर्भींकृतै-
र्दत्ते कस्य मुदं न शङ्करगुरोर्भव्यार्थकाव्यावलिः ॥ ९६