पृष्ठम्:शङ्करदिग्विजयः.djvu/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
सर्गः ६]
65
आत्मविद्याप्रतिष्ठा

ततो महाभारतसारभूताः स व्याकरोद्भागवतीश्च गीताः ।
सनत्सुजातीयमसत्सुदूरं ततो नृसिंहस्य च तापनीयम् ।। ६२

ग्रन्थानसंख्यांस्तदनूपदेशसाहर्सिकादीन्व्यदधात्सुधीड्यः ।
श्रुत्वाऽर्थविद्यानविवेकपाशान्मुक्ता विरक्ता यतयो भवन्ति ।६३

श्रीशङ्कराचार्यरवावुदेत्य प्रकाशमाने कुमतिप्रणीताः ।
व्याख्यान्धकारा प्रलयं समीयुर्दुर्वादिचन्द्रप्रभयाऽवियुक्तार॥ ६४

अथ व्रतींन्दुर्विधिवद्विनेयानध्यापयामास स नैजभाष्यम् ।
तर्कै परेषां तरुणैर्विवस्वन्मरीचिभिः सिन्धुवदप्रशोव्यम् ।।६५

निजशिष्यहदब्जभास्वतो गुरुवर्यस्य सनन्दनादयः ।
शमपूर्वगुणैरशुश्रुवन्कतिचिच्छिष्यगणेषु मुख्यताम् ॥६६

स नितरामितराश्रवतो लसन्नियममद्भुतमाप्य सनन्दनः ।
श्रुतनिजश्रुतिकोऽप्यभवत्पुनः पिपठिषुर्गहनार्थविवित्सया ॥ ६७

अद्वैभक्तिममुमात्मपदारविन्दद्वदे नितान्तदयमानमना मुनीन्द्रः ।
आम्नायशेखररहस्यनिधानकोशमात्मीयकोशमखिलं त्रिरपाठयत्तम् ॥ ६८

ईर्ष्याभराकुलहृदामितराश्रवाणां प्रख्यापयन्ननुपमामदसीयभक्तिम् ।
अभ्रापगापरतटस्थममुं कदाचिदाकारयन्निगमशेखरदेशिकेन्द्रः ॥ ६९

संतारिकाऽनवधिसंसृतिसागरस्य किं तारयेन्न सरितं गुरुपादभक्तिः ।
इत्यञ्जसा प्रविशतः सलिलं द्युसिन्धुः पद्मान्युदञ्चयति तस्य पदे पदे स्म ॥

पाथोरुहेषु विनिवेश्य पदं क्रमेण प्राप्तोपकण्ठममुमप्रतिमानभक्तिम् ।
आनन्दविस्मयनिरन्तनिरन्तरोऽसावाश्लिष्य पद्मपदनामपदं व्यतानीत् ॥

तं पाठयन्तमनवद्यतमात्मविद्यां ये तु स्थिताः सदसि तत्वविदां सगर्वाः ।
आचिक्षिपुः कुमतपाशुपताभिमानाः केचिद्विवेकविटपोग्रदवायमानाः ॥

तद्विकल्पनमनल्पमनीषः श्रुत्युदाहरणतः स निरस्य ।
ईषदस्तमितगर्वभराणामागमानपि ममन्थ परेषाम् ॥ ७३