इत्थं सुधी: स निरवग्रहमातृलक्ष्मी-
शानुग्रहो घटजबोधितभाविवेदी ।
एकान्ततो विगतभोगपदार्थकृष्ण:
कृष्णे प्रतीचि निरतो निरगानिशान्तात् ॥८१
यस्य त्रिनेत्रापर विग्रहस्य कामेन नास्थीयत हक्पथेऽपि ।
तन्मूलक: संसृतिपाशबन्धः कथं प्रसज्येत महानुभावे ॥८२
स्मरेण किल मोहितौ विधिविधू च जातूत्पथौ
तथाऽहमपि मोहिनीकुच कचा दिवीक्षापरः ।
अगामहह मोहिनी मिति विमृश्य सोऽजागरीत्
यतीशवपुषा शिवः स्मरकृतार्तिवार्तो ज्झितः ॥८३
निष्पत्राकुरुतासुरानपि सुरान् मारः सपत्राऽकरो-
दप्यन्यानिह निष्कुलाऽकृततरां गन्धर्वविद्याधरान् ।
यो धानुष्कवरो नराननलसात्कृत्वोदलासीदलं
यस्तम्मिन्ननुशरतैष मुनिभिर्वर्ण्यः कथं शङ्करः ॥ ८४
शान्तिश्चावशयन्मनो गतिमुखा दान्तिर्न्यरुद्ध क्रिया:
आधात्ता विषयान्तरादुपरतिः शान्तिमृदुत्वं व्यधात् ।
ध्यानैकोत्सुकतां समाधिविततिश्चक्रे तथाऽऽस प्रिया
श्रद्धा हन्त वसुमथाऽस्य तु कुतो वैराग्यतो वेद्मि नो ॥ ८५
विजनतावनितापरितोषितो विधिवितीर्णकृतात्मतनुस्थितिः ।
परिहरन ममतां गृहगोचरां हृदयगेन शिवेन समं ययौ ॥८६
गच्छन्वनानि सरितो नगराणि शैलान
ग्रामाञ्जनानपि पशून् पथि सोऽपि पश्यन् ।
नन्वेंन्द्रजालिक वाद्भुतमिन्द्रजालं
ब्रह्मैवमेव परिदर्शयतीति मेने ॥८७
वादिभिर्निज निजाध्व कर्शितां वर्तयन् पथि जरदूवीं निजे ।
दण्डभेकमवहज्जगद्गुरुर्दण्डिताखिलकदध्वमण्डलः ॥८८
पृष्ठम्:शङ्करदिग्विजयः.djvu/५५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः ५]
49
संन्यासग्रहणम्