पृष्ठम्:शङ्करदिग्विजयः.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
50
[पञ्चमः
श्रीमच्छङ्करदिग्विजये

 सारङ्गा इव विश्वकद्धभिरहंकुर्वद्भिरुच्छृंखलै-
  र्जल्पाकैः परमर्मभेदनकलाकण्डूलजिह्वाञ्चलैः ।
 पाखण्डैरिह कान्दिशी कमनसः के नामयुर्वेदिका :
  क्लेशं दण्डधरो यदि स्मन मुनिस्त्राता जगद्देशिकः ॥ ८९

दण्डान्वितेन धृतरागनवाम्बरेण गोविन्दनाथवन मिन्दुभवातटस्थम् ।
तेन प्रविष्टमजनिष्ट दिनावसाने चण्डत्विषा च शिखरं चरमाचलस्य ॥ ९०

तीरद्रुमागतमरुद्विगतश्रमः सन् गोविन्दनाथवनमध्यतलं लुलोके ।
शंसन्ति यत्र तरवो वसति मुनीनां शाखाभिरुज्ज्वलमृगाजिनवल्कलाभिः ॥

आदेशमेकमनुयोक्तुमयं व्यवस्यन् प्रादेशमात्र विवरप्रतिहारभाजम् ।
तत्र स्थितेन कथितां यमिनां गप्पेन गोविन्ददेशिकगुहां कुतुकी ददर्श ॥ ९२

यस्य प्रपन्नपरितोषदुहो गुहायाः स त्रिः प्रदक्षिणपरिक्रमणं विधाय ।
द्वारं प्रति प्रणिपतञ्जनतापुरोगं तुष्टाव तुष्टहृदयस्तमपास्तशोकम् ॥ ९३

पर्यतां भजति यः पतगेन्द्रकेतोः पादाङ्गदत्वमथवा परमेश्वरस्य ।
तस्यैव मूर्ध्नि घृतसाब्धिमहीघ्रभूमेः शेषस्य विग्रहमशेषमहं भजे त्वाम् ॥

दृष्टा पुरा निजसहस्रमुखीमभैपुरन्तेवसन्त इति तामपहाय शान्तः ।
एकाननेन भुवि यस्त्ववतीर्य शिष्यानन्वग्रहीन्ननु स एव पतञ्जलिस्त्वम् ॥

उरगपतिमुखादधीत्य साक्षात्स्वयमवनेर्विवरं प्रविश्य येन ।
प्रकटितमचलातले सयोगं जगदुपकारपरेण शब्दभाष्यम् ॥९६

तमखिलगुणपूर्ण व्यासपुत्रस्य शिष्यादधिगतपरमार्थ गौडपादान्महर्षेः ।
अधिजिगमिषुरेष ब्रह्मसंस्थामहं त्वां मसृमरमहिमानं पापमेकान्तभक्त्या ॥

तस्मिन्निति स्तुवति कस्त्वमिति ब्रुवन्तं दिष्ट्या समाधिषदरुद्ध विसृष्ट चित्तम् ।
गोविन्ददेशिकमुवाच ततो बचोभिः प्राचीनपुण्यजनितात्मविबोधचिकैः ॥

 स्वामिनहं न पृथिवी न जलं न तेजो
  न स्पर्शनो न गगनं न च तद्गुणा वा ।
 नापीन्द्रियाण्यपि तु विद्धि ततोऽवशिष्टो
  यः केवलोऽस्ति परमः स शिवोऽहमस्मि ॥९९