अहथम्ब रात्रिसमये समयान्तरे वा
संचिन्तय स्ववशगाऽवशगाऽथवा माम् ।
एष्यामि तत्र समयं सकलं विहाय
विश्वासमाप्नुहि मृतावपि संस्करिष्ये ॥७१
संन्यस्त वाञ्छिशुरयं विधवामनाथां
क्षिप्त्वेति मां प्रति कदाऽपि न चिन्तनीयम् ।
यावन्मया स्थितवता फलमापनीयं
मातस्तत: शतगुणं फलमापयिष्ये ॥७२
इत्थं स्वमातरमनुग्रहणेच्छुरुक्त्वा प्रोचे सनाभिजनमेष विचक्षणाग्यः ।
संन्यासकल्पितमना व्र जितोऽस्मि दूरं तां निक्षिपामि जननीमधवां भवत्सु ॥
एवं सनाभिजनमुत्तममुत्तमाग्य: श्रीमातृकार्यमभिभाष्य करद्वयेन ।
सम्प्रार्थयन् स्वजननीं विनयेन तेषु न्यक्षेपयन्नयनजाम्बु निषिञ्चमानाम् ॥
आत्मीयमन्दिरसमीपगतामथासौ चक्रे विदरगनदीं जननीहिताय ।
तत्तीरसंश्रितयद्वहधाम किंचित्सा निम्नगाऽऽरभत ताडयितुं तरः ॥ ७५
वर्षासु वर्षति हरौ जलमेत्य किंचिदन्तःपुरं भगवतोऽपनुनोद मृत्स्नाम् ।
आरब्ध मूर्तिरनघा चलितुं क्रमेण देवोऽविभेदिव न मुञ्चति भीरुहिंसाम् ॥
प्रस्थातुकाममनघं भगवान नङ्गवाचाऽवदत्कथमपि प्रणिपत्य मातुः ।
पादारविन्दयुगलं परिगृह्य चाज्ञां श्रीशङ्करं जनहितैकरसं स कृष्णः ॥ ७७
आनेष्ट दूरगनदी कृपया भवान् यां सा माऽतिमात्रमनिशं बहुलोर्मिहस्तैः ।
क्लिश्नाति ताडनपरा वद कोऽभ्युपायो वस्तुं क्षमे न नितरां द्विजपुत्र यासि ॥
आकर्ण्य वाचमिति तामतनुं गुरुर्न: मोद्धत्य कृष्णमचलं शनकैर्भुजाभ्याम् ।
प्रातिष्ठिपन्निकट एव न यत्र बाधा नधेत्युदीर्य सुखमास्स्व चिराय चेति ॥
तस्मात्स्वमातुरपि भक्तिवशादनुज्ञा-
मादाय संसृतिमहाब्धिविरक्तिमान् सः ।
गन्तुं मनो व्यधित संन्यसनाय दूरं
कि नौस्थितः पतितुमिच्छति वारिराशौ ॥८०
पृष्ठम्:शङ्करदिग्विजयः.djvu/५४
दिखावट
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
48
[ पञ्चमः
श्रीमच्छङ्करदिग्विजये