पृष्ठम्:शङ्करदिग्विजयः.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः ५]
45
संन्यासग्रहणम्

प्रणिपत्य स भक्तिसंनतः प्रसवित्र्या सह तान्विधानवित् ।
विधिवन्मधुपर्कपूर्वया प्रतिजग्राह सपर्यया मुनीन् ॥३७

विहिताञ्जलिना विपश्चिता विनयोक्त्याऽर्पित विवरा अमी ।
ऋषय: परमार्थसंश्रया अमुना साकमचीकरन कथा: ॥३८

निजगाद कथान्तरे सुनीजननी तस्य समस्तदर्शिनः ।
वयमद्य कृतार्थतां गता भगवन्तो यदुपागता गृहान् ॥३९

क कलिर्वहुदोषभाजनं क च युष्पच्चरणावलोकनम् ।
तद्लभ्यत चेत्पुराकृतं सुकृतं नः किमिति प्रपञ्चये ॥४०

शिशुरेष किलातिशैशवे यदशेषागमपारगोऽभवत् ।
महिमाऽपि यदद्भुतोऽस्य तद् द्वयमेतत्कुरुते कुतुहलम् ॥४१

करुणाद्रहशाऽनुगृह्यते स्वयमागत्य भवद्भिरण्ययम् ।
वदतास्य पुराकृतं तपः क्षममाकर्णयितुं मया यदि ॥४२

इति सादरमीरितां तया गिग्माकर्ण्य महर्षिसंसदि ।
प्रतिवक्तुमभिमचोदितो घटजन्मा प्रवयाः प्रचक्रमे ॥४३

तनयाय पुरा पतिव्रते तत्र पत्या तपसा प्रमादितः ।
स्मितपूर्वमुपाददे बचो रजनीवल्लभ खण्डमण्डनः ॥४४

वरयस्व शतायुषः सुतानपि वा सर्वविदं मितायुषम् ।
सुतमे कमिती रितः शिवं सति सर्वज्ञमयाचतात्मजम् ॥४५

तद भीप्सितसिद्धये शिवस्तव भाग्यात्तनयो यशस्विनि ।
स्वयमेव बभूव सर्वविन्न ततोऽन्योऽस्ति यतः सुरेष्वपि ॥४६

इति तद्वचनं निशम्य सा मुनिवर्य पुनरव्यवोचत ।
कियदापुरमुष्य भो मुने सकलज्ञोऽस्यनुकम्पया वद ॥४७

शरदोऽष्ट पुनस्तथाऽष्ट ते तनयस्यास्य तथाऽप्यसौ पुनः ।
निवसिष्यति कारणान्तराद्भुवनेऽस्मिन् दश षट् च वत्सरान ॥४८