पृष्ठम्:शङ्करदिग्विजयः.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
46
[पञ्चमः
श्रीमच्छङ्करदिग्विजये

इति वादिनि भाविनीं कथामृषिमुख्ये घटजे निवार्य तम् ।
ऋषयः सह तेन शङ्करं समुपामन्त्र्य ययुर्यथागतम् ॥४९

सृणिना करिणीव सार्दिता शुचिना शैवलिनीव शोषिता ।
मरुता कदलीव कम्पिता मुनिवाचा सुतवत्सलाऽभवत् ॥५०

अथ शोकपरीतचेतनां द्विजराडित्यमुवाच मातरम् ।
अवगम्य च संसृतिस्थितिं किमकाण्डे परिदेवना तव ॥५१

प्रवलानिल वेग वेल्लितध्वजचीनांशुकको टिचञ्चले ।
अपि मृढमतिः कलेबरे कुरुते कः स्थिरबुद्धिमम्बिके ॥५२

कति नाम सुता न लालिताः कति वा नेह वधुरभुञ्जि हि ।
क्वनु ते क्वच ताः कवा वयं भवसंगः खलु पान्थसंगमः ॥५३

भ्रमतां भववर्त्मनि भ्रमान्न हि किंचित्सुखमम्ब लक्षये ।
तदवाप्य चतुर्थमाश्रमं प्रयतिष्ये भवबन्धमुक्तये ॥५४

इति कर्णकंठोरभाषणश्रवणाद्वाष्पपिनद्धकण्ठया ।
द्विगुणीकृतशोकया तथा जगदे गद्गदवाक्यया मुनिः ॥५५

त्यज बुद्धिमिमां शृणुष्व मे गृहमेधी भव पुत्रमाप्नुहि ।
यज च क्रतुभिस्ततो यतिर्भवितास्यङ्ग सतामयं क्रमः ॥५६

कथमेकतनुभवा त्वया रहिता जीवितुमुत्सहेऽवला ।
अनयैव शुचौर्ध्वदेहिकं प्रमृतायां मयि कः करिष्यति ॥५७

त्वमशेष विदध्यपास्य मां जरठां वत्स कथं गमिष्यसि ।
द्रवते हृदयं कथं न ते न कथंकारमुपैति वा दयाम् ॥५८

एवं व्यथां तां बहुधाऽऽश्रयन्तीमपास्तमोहैबहु भिर्बचोभिः ।
अम्बामशोकां व्यदधाद्विधिज्ञः शुद्धाष्टमेऽचिन्तयदेतदन्तः ॥५९

मम न मानसमिच्छति संसृति न च पुनर्जननी विजिहासति ।
न च गुरुर्जननी तदुदीक्षते तदनुशासनमीषदपेक्षितम् ॥६०