पृष्ठम्:शङ्करदिग्विजयः.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
44
[पञ्चमः
श्रीमच्छङ्करदिग्विजये

तां नितान्तहृदयङ्गमसारां गां निशम्य तुलितामृतधाराम् ।
भूपतिः स रचिताञ्जलिबन्ध: स्वोपमं सुतमियेष सुसन्धः ॥२७

नो हिताय मम हाटकमेतद्देहि नस्तु गृहवासिजनाय ।
ईहितं तव भविष्यति शीघ्रं याहि पूर्णमनसेत्यवदत्तम् ॥२८

राजवर्यकुलवृद्धिनिमित्तां व्याजद्दार रहसिश्रुतिवित्ताम् ।
इष्टिमस्य सकलेष्टविधातुस्तुष्टिमाप हि तया क्षितिनेता ॥२९

स विशेषविदा सभाजितः कविमुख्येन कलाभृतां वरः ।
अगमत्कृतकृत्यधी र्निजां नगरीमस्य गुणानुदीरयन् ॥३०

बहवः श्रुतिपारदृश्वनः कवयोऽध्यैषत शङ्कराद्दूरोः ।
महतः सुमहान्ति दर्शनान्यधिगन्तुं फणिराजकौशलीम् ॥३१

पठितं श्रुतमादरात्पुनः पुनरालोक्य रहस्यनूनकम्
प्रविभज्य निमञ्जतः सुखे स विधेयान् विदधेतमां सुधीः ॥३२

 सर्वार्थतन्त्र विदपि प्रकृतोपचारैः
  शास्त्रोक्तभक्तयतिशयेन विनीतशाली ।
 सन्तोषयन् स जननीमनयत्कियन्ति
  संमानितो द्विजवरैर्दिवसानि धन्यः ॥३३

 सा शङ्करस्य शरणं स च तज्जनन्या
  अन्योन्ययोग विरहस्त्वनयोरसह्यः ।
 नो वोदुमिच्छति तथाऽध्यमनुष्यभावान्
  मेरुं गतः किमपि वाञ्छति दुष्प्रदेशम् ॥३४

कृतविद्यममुं चिकीर्षवः श्रितगार्हस्थ्यमथासबन्धवः ।
अनुरूपगुणामचिन्तयन्ननवद्येषु कुलेषु कन्यकाम् ॥३५

अथ जातु दिदृक्षवः कलाववतीर्ण मुनयः पुरद्विषम् ।
उपमन्युदधीचिगौतमत्रितलागस्त्यमुखाः समाययुः ॥३६