पृष्ठम्:शङ्करदिग्विजयः.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
36
[चतुर्थः
श्रीमच्छङ्करदिग्विजये

 भक्ताभीप्सितकल्पनेन नितरां कल्पादिकल्पायते  {{gap}कस्तां नान्यपृथग्जनैस्तुलयितुं मन्दाक्षमन्दायते ॥७०

न बभूव पुरातनेषु तत्सदृशो नाग्रतनेषु दृश्यते । भविता किमनागतेषु वा न सुमेरोः सदृशो यथा गिरिः ॥७१

समशोभत तेन तत्कुलं स च शीलेन परं व्यरोचत । अपि शीलपदीपि विद्यया ह्यपि विद्या विनयेन दिद्युते ॥७२

सुयशः कुसुमोच्चयः श्रय द्विबुधा लिर्गुणपल्लवोहमः । अवबोधफलः क्षमारस: सुरशाखीव रराज सूरिराट् ॥७३

न च शेषभवी न कापिली गणिता काणभुजी न गोरपि । फणितिष्वितरासु का कथा कविराजो गिरि चातुरीजुषि ॥७४

भट्टभास्कर विपर्ददुर्दशामज्जदागम शिरःकरग्रहा । हन्त शङ्करगुरोगिर: क्षरन्त्यक्षरं किमपि तद्रसायनम् ॥७५

 जाटाटङ्कजटाकुटीर विहर नैलिम्पकल्लोलिनी-   क्षोणीशप्रियकृन्नत्रावतरणावष्टम्भगुम्फच्छिदः ।  गर्जन्तोऽवतरन्ति शङ्करगुरुक्षोणीधरेन्द्रोदरा-   द्वाणी निर्झरिणीझराः क नु भयं दुर्भिक्षुदुर्भिक्षतः ॥७६

 वारी चित्तमतङ्गजस्य नगरी बोधात्मनो भूपते-   दूरी भूतदुरन्तदुर्वदझरी हारीकृता सुरिभिः ।  चिन्तासन्ततिसूलवातलहरी वेदोल्लसच्चातुरी   संसाराब्धितरी रुदेति भगवत्पादीयवाग्वैखरी ॥७७

 कथादर्पोत्सर्पत्कथकबुधकण्डूलरसना-   सनालाघः पाते स्वयमुदयमन्त्रो व्रतिपतेः ।  निगुम्फ: सूक्तीनां निगमशिखराम्भोजसुरभिः   जयत्य द्वैत श्री जय विरुदघण्टाघणघणः ॥७८