पृष्ठम्:शङ्करदिग्विजयः.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः ४]
37
कौमारचरितवर्णनम्

 कस्तूरीघनसारसौरभपरीरंभप्रियंभावुका-
  स्तापोन्मेषमुषो निशाकरकराहंकारकूलंकषा: ।
 द्राक्षामाक्षिकशर्करामधुरिमयामा विसंवादिनो
  व्याहारा मुनिशेश्वरस्य न कथंकारं मुदं कुर्वते ॥७९

 अद्वैते परिमुक्तकण्टकपथे कैवल्यघण्टापये
  स्वाहंपूर्वक दुर्विकल्परहितमाज्ञाध्वनीनाकुले ।
 प्रस्कन्दन्मकरन्दटन्दकुसुमस्त्रक्तोरणमक्रिया-
  माचार्यस्य वितन्वते नवसुधासिक्ताः स्वयं सूक्तयः ॥ ८०

 दूरोत्सारितदुष्टपांसुपटलीदुर्नीतयोऽनीतयो
  वाता देशिकवाङ्मयाः शुभगुणग्रामालया मालया: ।
 मुष्णन्ति श्रममुल्लसत्परिमलश्री मेदुरा मे दुरा-
  यासस्याऽऽधिहविर्भुजो भवमये धीमान्तरे प्रान्तरे ॥८१

 नृत्यन्त्या रसनाग्रसीपनि गिरां देव्याः किमङधिकण-
  न्मञ्जीरोजितसिञ्जितान्युत नितम्बालम्बिकाञ्चीरवाः ।
 किं वलगत्करपद्म कङ्कणझणत्कारा इति श्रीमतः
  शङ्कामङ्करयन्ति शङ्करकवेः सयुक्तयः सूक्तयः ॥८२

 वर्षारम्भविजृम्भमाणजलमुग्गम्भीरघोषोपमो
  वात्यातूर्णविघूर्णदर्णवपयः कल्लोलदर्पापहः ।
 उन्मीलन्नव मल्लिकापरिमलाहंतानिहन्ता निश-
  तङ्कः शङ्करयोगिदेशिकगिरां गुम्फ: समुज्जृम्भते ॥८३

 हृद्या पद्यविनाकृता प्रशमिता विद्याऽमृषोद्या सुधा-
  स्वाधा माद्यदरातिचोद्यमिदुराऽभेद्या निषद्यायिता ।
 विद्यानामनघोद्यमा सुचरिता साधापदुद्यापिनी
  पद्या मुक्तिपदस्य साऽद्य मुनिवाङनुद्यादनाद्या रुजः ॥८४

 आयासस्य नवाङ्करं घनमनस्तापस्य बीजं निजं
  क्लेशानामपि पूर्वरङ्गमलघुपस्तावनाडिण्डिमम्। ८४