पृष्ठम्:शङ्करदिग्विजयः.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः ४]
35
कौमारचरितवर्णनम्

कलयाऽपि तुलानुकारिणं कलयामो न वयं जगत्तये ।
विदुषां स्वसमो यदि स्वयं भविता नेति वदन्ति तत्र के ॥६३

युवनान्त इवामरमा अमरचिव पुष्पसञ्चयाः ।
भ्रमरा इव पुष्पसञ्चयेष्वतिसंख्याः किल शङ्करे गुणाः ॥६४

 कामं वस्तुविचारतोऽच्छिनदयं पारुण्य हिसाक्रुघ:
  क्षान्त्या दैन्यपरिग्रहानृतकथालीभांस्तु सन्तोषतः ।
 मात्सर्य वनसूयया महमहामानौ चिरं भावित-
  स्वान्योत्कर्षगुणेन तृप्तिगुणतस्तृष्णां पिशाचीमपि ॥६५

 कामं यस्तु समूलघातमवधात्स्वर्गापवर्गापहं
  रोषं यः खलु चूर्णपेषमपिषन्निःशेषदोषावहम् ।
 लोभादीनपि यः परांस्तृणसमुच्छेदं समुच्चिच्छिदे
  स्वस्यान्तेवसतां सतां स भगवत्पादः कथं वर्ण्यते ॥६६

 केडमी कान्त दिवा निशाकरकरा धर्मस्य मर्मच्छिदो
  मुग्धे शम्भुनवावतारसुगुरोरेते गुणानां गणा: ।
 कस्मादुत्पलसन्ततिर्विक सिता विस्मेरदिग्योषिता-
  मेपागझरीति दिग्गजवधूप्रश्नोत्तरे रेजतुः ॥६७

 नाक्ष्णा माक्षिकमीक्षितं क्षणमपि द्राक्षा मुहुः शिक्षिता
  क्षीरेक्षू समुपेक्षितौ भुवि यया सा शङ्करश्रीगुरोः ।
 कान्तानन्तदिगन्तलङ्घनकलाजङ्घालतत्तद्गुण-
  श्रेणी निर्भरमाधुरीमदधुरा धन्येति मन्यामहे ॥६८

 क्षान्तिश्चेद्वसुधा जहातु महतीं सर्वसहत्वप्रथां
  विद्यावेगिरहन्तु षण्मुखमुखा: स्वावर्गगर्वावलीम् ।
 वैराग्यं यदि बादरायणियशः कार्य परं गाहतां
  कि जल्पैर्मुनिशेखरस्य न तुलां कुत्रापि मन्यामहे ॥ ६९

 या मूर्ति: क्षमया मुनीश्वरीमयी गोत्रासगोत्रायते
  विद्याभिर्निरवद्यकीर्तिभिरलं भाषाविभाषयते ।