पृष्ठम्:शङ्करदिग्विजयः.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
34
[ चतुर्थः
श्रीमच्छङ्करदिग्विजये

दुर्वारप्रतिपक्ष दूषण समुन्मेषक्षितौ कल्पने
  सेतोरप्यनघस्य तापसकुलैणाङ्कस्य लङ्कारयः ।
 अपन्नानतिकाय विभ्रममुष: संसारिशाखामृगान्
  पुष्णन्त्यच्छपयो कवी चिवदलङ्काराः कटाक्षाङ्कुरा: ॥५६

 निःशङ्कक्ष तिरुक्षकण्टककुलं मीनाङ्कदावानल-
  ज्वालासंकुलमार्तिपङ्किलतरं व्यध्वं धृतिध्वंसिनम् ।
 संसाराकृतिपापच्छलचलवरदुर्वारणं
  मुष्णन्ति श्रममाश्रिता नवसुधादृष्ट्यायिता दृष्टयः ॥५७

 त्रिपुण्टुं तस्याहु: सितमसितशोभि त्रिपथगां
  कृपापारावारं कतिचन मुनिं तं श्रितवतीम् ।
 बयं त्वेतद् ब्रमो जगति किल तिस्रः सुरुचिरा-
  स्त्रयीमौलिव्याकृत्युपकृतिभवाः कीर्तय इति ॥५८

 असौ शंभोललावपुरिति भृशं सुन्दर इति
  द्वयं सम्पत्ये तज्जनमनसि सिद्धं च सुगमम् ।
 यदन्तः पश्यन्तः करणमदसीयं निरुपमं
  वृणीकुर्वन्येते सुषममपि कामं सुमतयः ॥५९

 अज्ञानान्तर्गहनपतितानात्म विद्योपदेशै-
  स्त्रातुं लोकान्भवद वशिखातापपापच्यमानान् ।
 मुक्त्वा मौनं वटविटपिनो मूलतो निष्पतन्ती
  शम्भोर्मुर्तिवरति भुवने शङ्कराचार्यरूपा ॥६०

 उच्चण्डाहितवावदुककुहनापाण्डित्यवैतण्डिकं
  जाते देशिकशेखरे पदजुषां सन्तापचिन्तापहे ।
 कार्य हृदि भूयसाकृत पदं वैभाषिकादे: कथा-
  चातुर्य कलुषात्मनो लयमगाद्वैशेषिकादेरपि ॥६१

अमुना क्रतवः प्रसाधिता: ऋतुविभ्रंशकरः स शङ्करः ।
इयमेव भिदाऽनयोर्जितस्मरयोः सर्वविदोर्बुधेड्ययोः ॥६२