पृष्ठम्:शङ्करदिग्विजयः.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
28
[तृतीयः
श्रीमच्छङ्करदिग्विजये

 शाक्यैः पाशुपतैरपि क्षपणकैः कापालिकैवैष्णवै-
  रप्यन्यैरखिलैः खलैः खलु खिलं दुर्वादिभिर्वैदिकम् ।
 पन्थानं परिरक्षितुं क्षितितलं प्राप्तः परिक्रीडते
  घोरे संमृतिकानने विचरतां भद्रंकरः शङ्करः ॥८६
  इति श्रीमाधवीये तत्तद्देवावतारार्थकः ।
  संक्षेपशङ्करजये तृतीयः सर्ग आभवत् ।।

आदितः श्लोका: 274.

अथ चतुर्थः सर्गः ॥ ४ ॥

कौमारचरितवर्णनम् ॥

अथ शिवो मनुजो निजमायया द्विजगृहे द्विजमोदमुपावहन् ।
प्रथमहायन एव समग्रहीत्सकलवर्णमसौ निजभाषिकाम् ।।१

द्विसम एव शिशुलिखिताक्षरं गदितुमक्षमताक्षरवित्सुधीः ।
अथ स काव्यपुराणमुपाशृणोत्स्वयमवैत्किमपि श्रवणं विना ॥२

अजनि दुःखकरो न गुरोरसौ श्रवणतः सकृदेव परिग्रही ।
सहनिपाठजनस्य गुरुः स्वयं स च पपाठ ततो गुरुणा विना ॥३

रजसा तमसाऽप्यनाश्रितो रजसा खेलनकाल एव हि ।
स कलाधरसत्तमात्मजो सकलाश्चापि लिपीरविन्दत ।।४

सुधियोऽस्य विदिद्युतेऽधिकं विधिवच्चौलविधानसंस्कृतम् ।
ललितं करणं घृताहुतिज्वलितं तेज इवाशुशुक्षणेः ॥५

उपपादननियंपेक्षधीः स पपाठाहृतिपूर्वकागमान् ।
अधिकाव्यमरंस्त कर्कशेऽप्यधिकांस्तर्कनयेऽत्यवर्तत ॥६

हरतस्त्रिदशेज्यचातुरी पुरतस्तस्य न वक्तुमीश्वराः ।
प्रभवोऽपि कथासु नैजवाग्विभवोत्सारितवादिनो बुधाः ॥७