पृष्ठम्:शङ्करदिग्विजयः.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः ३]
27
देवावतारः

 भर्तुः समक्षमपि तद्वदनं समीक्ष्य
  वाच्यो न जातु सुभगे परपुरुषस्ते ।
 कि वाच्य एष रहसीति तवोपदेशः
  शङ्का वधूपुरुषयोः क्षपयेद्धि हार्दम् ॥७३

 आयाति भर्तरि तु पुत्रि विहाय कार्य-
  मुत्थाय शीघ्रमुदकेन पदावनेक: ।
 कार्यो यथाभिरुचि हे सति जीवनं वा
  नो पेक्षणीयमणुमात्रमपीह कं ते ॥७४

धवे परोक्षेऽपि कदाचिदेयुगृहं तदीया अपि वा महान्तः ।
ते पूजनीया बहुमानपूर्व नो चेन्निराशा: कुलदाइकाः स्युः ॥७५

 पित्रोरिव श्वशुरयोरनुवर्तितव्यं
  तद्न्मृगाक्षि सहजेष्वपि देवरेषु ।
 ते स्नेहिनो हि कुपिता इतरेतरस्य
  योग विभियुरिति मे मनसि प्रतर्कः ॥७६

हितोपदेशे विनिविष्टमानसौ वधुवरौ राजगृहं समीयतुः ।
लब्धानुमानौ गुरुबन्धुवर्गतो बभूव संज्ञोभयभारतीति ॥७७

सा भारती दुर्वसनेन दत्तं पुनः प्रसन्नेन पुराऽऽत्तहर्षा ।
शापावधि संसदि वत्र्त्स्यते यत्सर्वज्ञतानिर्वहणाय साक्ष्यम् ॥७८

स भारती साक्षिक सर्ववित्रोऽप्यात्मीयशक्त्या शिशुवद्विभातः ।
स्वरौशवस्यो चितमन्त्रकांक्षीत्स केशवो यद्वदुदारवृत्तः ॥७९

शैशवे स्थितवता चपलाशे शाङ्गिणेव वटवृक्षपलाशे ।
आत्मनीदमखिलं विलुलोके भाविभूतमपि यत्खलु लोके ॥८०

तं ददर्श जनताऽद्भुतवालं लीलयाऽधिगतनूतनदोलम् ।
वासुदेवमिव वामनलीलं लोचनैर निमिषैरनुवेलम् ॥८१

कोमलेन नवनीरदराजिश्यामलेन नितरां समराजि ।
केशवेशतमसाऽधिकमस्य केशवेशचतुरास्यसमस्य ॥८२