पृष्ठम्:शङ्करदिग्विजयः.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
24
[ तृतीयः
श्रीमच्छङ्करदिग्विजये

श्री विश्वरूपगुरुणा महितौ द्विजाती
कन्यार्थिनौ सुतनु किं करवाव वाच्यम् ।
तस्याः प्रमोद निचयो न ममौ शरीरे
रोमाञ्चपूर मिषतो बहिरुज्जगाम ॥४२

तेनैव सा प्रतिवचः प्रददौ पितृभ्यां तेनैव तावपि तयोर्युगलाय सत्यम् ।
आदाय विप्रमपरं पितृगेहतोऽस्यास्तौ जग्मतुर्द्विजवरौ स्वनिकेतनाय ॥

अस्माच्चतुर्दश दिने भविता दशम्यां
जामित्रभादिशुभयोगयुतो मुहूर्तः ।
एवं विलिख्य गणितादिषु कौशलास्या
व्याख्यापराय दिशति स्म सरस्वती सा ॥४४

तौ हृष्टपुष्टमनसौ विहितेष्टका य
श्री विश्वरूपगुरुमुत्तममैक्षिषाताम् ।
सिद्धं समीहितमिति प्रथितानुभावो
दृष्ट्टैव तन्मुखमसावथ निश्चिकाय ॥४५

अन्य: स्वहस्तगतपत्रमदात्स पत्र दृष्ट्वा जहास सुखवारिनिधौ ममज्ज ।
विमान्यथोचितमपूजयदागतांस्तान्नत्वांऽशुकादिभिरयं बहुवित्तलभ्यैः ॥

पित्रानुशिष्टवसुधासुरशंसितेन विज्ञापितः सुखमवाप स विश्वरूपः ।
कार्याण्यथाह पृथगात्मजनान्समेतान्बन्धुप्रियः परिणयो चितसाधनाय ॥

मौहूर्तिकर्बहुभिरेत्य मुहूर्तकाले संदर्शिते द्विजवरैर्खेहुविद्भिरिष्टैः ।
माङ्गल्यवस्तुसहितोऽखिलभूषणाढ्यः स प्रापदक्षततनुः पृथुशोणतीरम् ॥

शोणस्य तीरमुपयातमुपाशृणोत्स जामातरं बहुविधं किल विष्णुमित्रः ।
प्रत्युज्जगाम मुमुदे प्रियदर्शनेन प्रावीविशद गृहममुं बहुवाद्यघोषैः ॥ ४९

दवाssसनं मृदुवचः समुदीर्य तस्मै पाद्यं ददौ समधुपर्कमनर्धपात्रे ।
अर्ध्य ददावहमियं तनया ग्रहास्ते गावो हिरण्यमखिलं भवदीयमूचे ॥