पृष्ठम्:शङ्करदिग्विजयः.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः ३]
23
देवावतारः

भार्यामपृच्छदथ किं करवाव भद्रे
विौ वरीतुमनसौ खलु राजगेहात् ।
एतां सुतां सुतनिभा तव याऽस्ति कन्या
ब्रूहि त्वमेकमनुमाय पुनर्न वाच्यम् ॥३३

दूरे स्थितिः श्रुतवयः कुलवृत्तजातं न ज्ञायते तदपि किं भवदामि तुभ्यम् ।
वित्तान्विताय कुलवृत्तसमन्विताय देया सुतेति विदितं श्रुतिलोकयोश्च ॥

नैवं नियन्तुमनधे तव शक्यमेतत्तां रुक्मिणीं यदुकुलाय कुशस्थलीशे ।
मादात्स भीष्मकनृपः खलु कुण्डिनेशस्तीर्थापदेशमटते त्वपरीक्षिताय ॥

कि केन सङ्गतमिदं सति मा विचारीयों वैदिकी सरणिममहतां प्रयत्नात् ।
मातिष्ठिपत्सुगतदुर्जयनिर्जयेन शिष्यं यमेनपशिषत्स च भट्टपादः ॥ ३६

किं वर्ण्यते सुदति यो भविता वरो नो
विद्याधनं द्विजवरस्य न बाह्यवित्तम् ।
याऽन्वेति सन्ततमनन्तदिगन्तभाजं
यां राजचोरवनिता न च हर्तुमीशाः ॥३७

वध्वर्जनावनपरिव्ययगानि तानि
वित्तानि चित्तमनिशं परिखेदयन्ति ।
चोरान्नृपात्स्वजनतश्च भयं घनानां
शर्मेति जातु न गुणः खलु बालिशस्य ॥३८

के चिद्धनं निदधते भुवि नोपभोगं कुर्वन्ति लोभवशगा न विदन्ति केचित् ।
अन्येन गोपितमथान्यजना हरन्ति तच्चेन्नदीपरिसरे जलमेव हर्ट ॥ ३९

सर्वात्मना दुहितरो न गृहे विधेयास्ताश्वेतपुरा परिणयाद्रज उगतं स्यात् ।
पश्येयुरात्मपितरौ बत पातयन्ति दुःखेषु घोरनरकेष्विति धर्मशास्त्रम् ॥

मा भूदयं मम सुता कलह: कुमारीं
पृच्छाव सा वदति यं भविता बरोऽस्याः ।
एवं विधाय समयं पितरौ कुमार्या:
अभ्याशमीयतुरितो गदितेष्टकार्यो ॥४१