पृष्ठम्:शङ्करदिग्विजयः.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः ३]
21
देवावतारः


प्रसादितोऽभूदय सम्पसन्नो वाण्या मुनीन्द्रैरपि शापमोक्षम् ।
ददौ यदा मानुषशङ्करस्य संदर्शनं स्याद्भवितास्य मर्त्या ॥१४

सा शोणती रेऽजनि विमकन्या सर्वार्थवित्सर्वगुणोपपन्ना ।
यस्या बभूवुः सहजाश्व विद्याः शिरोगतं के परिहर्तुमीशाः ॥१५

सर्वाणि शास्त्राणि पडद्भवेदान्काव्यादिकान्वेत्ति परं च सर्वम् ।
तन्नास्ति नो वेत्ति यदत्र बाला तस्मादभूच्चित्रपदं जनानाम् ॥१६

सा विश्वरूपं गुणिनं गुणज्ञा मनोऽभिरामं द्विजपुङ्गवेभ्यः ।
शुश्राव तां चापि स विश्वरूपस्तस्मात्तयो दर्शनलालसाऽभूत् ॥१७

अन्योन्यसंदर्शनलालसौ तौ चिन्ताप्रकर्षादधिगम्य निद्राम् ।
अवाप्य संदर्शनभाषणानि पुनः मबुद्धौ विरहाग्निततौ ॥१८

दिदृक्षमाणावपि नेक्षमाणावन्योन्यत्रार्ताहृतमानसौ तौ ।
यथोचिताहारविहारहीनौ तनौ तनुत्वं स्मरणादुपेतौ ॥१९

दृष्टा तदीयौ पितरौ कदाचिदपृच्छतां तौ परिकर्शिताङ्गौ ।
वपुः कृशं ते मनतोऽप्यगर्वो न व्याधिमीक्षे न च हेतुमन्यम् ॥२०

इष्टस्य हानेरनभीष्टयोगाद्भवन्ति दुःखानि शरीरभाजाम् ।
वीक्षे न तौ द्वावपि वीक्षमाणो विना निदानं नहि कार्यजन्म ॥२१

न तेऽत्यगादुद्वहनस्य काल: परावमानो न च निःस्वता वा ।
कुटुम्बभारो मयि दुःसहोऽयं कुमारवृत्तेस्तव काऽत्र पीडा ॥२२

न मृढभावः परितापहेतुः पराजितिर्वा तव तन्निदानम् ।
विद्वत्सु विस्पष्टतयायपाठात्सुदुर्गमार्थादपि तर्कविद्भिः ॥२३

 आ जन्मनो विहितकर्मनिषेवणं ते
  स्वप्नेऽपि नास्ति विहितेतर कर्मसेवा ।
 तस्मान्न भेयमपि नारकयातनाभ्यः
  किं ते मुखं प्रतिदिनं गतशोभमास्ते ॥२४