पृष्ठम्:शङ्करदिग्विजयः.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
20
[तृतीयः
श्रीमच्छङ्करदिग्विजये

पवमानोऽप्यजनि प्रभाकरात्सवनोन्मीलितकीर्तिमण्डकात् ।
गलहस्तितभेदवायसौ किल हस्तामलकाभिधामधात् ॥ ३
पवमानदशांशतोऽजनि प्लवमानाऽश्चति यद्यशोम्बुधौ ।
धरणी मथिता विवादिवाक्तरणी येन स तोटकाहयः ॥ ४
उदभावि शिलादमनुना मदवद्वादिकदम्बनिग्रहः ।
समुदश्चितकीर्तिशालिनं यमुदत अवते महीतले ॥
विधिरास सुरेश्वरो गिरां निधिरानन्दगिरिय॑जायत ।
अरुणः समभूत्सनन्दनो वरुणोऽजायत चित्सुखाहयः ।। ६
अपरेऽप्यभवन्दिवौकसः स्वपरेपिरविद्विषः प्रभोः ।
चरणं परिसेवितुं जगच्छरणं भूसुरपुङ्गवात्मजाः ।।
 चार्वाकदर्शनविधानसरोषधात-
  शापेन गीष्पतिरभूद्धवि मण्डनाख्यः ।
 नन्दीश्वरः करुणयेश्वरचोदित: स-
  नानन्दगिर्यभिधया व्यजनीति केचित् ॥
अथावतीर्णस्य विधेः पुरन्ध्री साऽभूधदाख्योभयभारतीति ।
सरस्वती सा खलु वस्तुत्या लोकोऽपि तां वक्ति सरस्वतीति ॥
पुरा किलाध्यैषत धातुरन्तिके सर्वज्ञकल्पा मुनयो निजं निजम् ।
वेदं तदा दुर्वसनोऽतिकोपनो वेदानधींयन्कचिदस्खलत्स्वरे ॥
तदा जहासेन्दुमुखी सरस्वती यदङ्गमर्णोद्भवशब्दसन्ततिः ।
चुकोप तस्यै दहनानुकारिणा निरैक्षताक्ष्णा मुनिरुग्रशासनः ॥ ११
शशाप तां दुनियेऽवनीतले जायस्व मर्येष्वविभेत्सरस्वती ।
प्रसादयामास निसर्गकोपनं तत्पादमूले पतिता विषादिनी ॥
दृष्ट्वा विषण्णां मुनयः सरस्वती प्रसादयांचक्रुरिमं तमादरात् ।
कृतापराधा भगवन्क्षमस्व तां पितेव पुत्रं विहितागसं मुने । १३