पृष्ठम्:शङ्करदिग्विजयः.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः२]
19
आचार्यजन्मादिकथनम्

नवविद्रुमपल्लवास्तृतामिव काश्मीरपरागपाटलाम् ।
रचयनचलां पदत्विषा स चचारेन्दुनिभः शनैः शनैः ।। ८९
मूर्धनि हिमकरचि निटिले नयनाङ्कमंसयोः शूलम् ।
वपुषि स्फटिकसवर्ण प्राज्ञास्त मेनिरे शंभुम् ।। ९०
राज्यश्रीरिव नयको विदस्य राज्ञो विद्येव व्यसनदवीयसो बुधस्य ।
शुभ्रांशोश्छविवि शारदस्य पित्रोः संतोषैः सह ववृधे तदीयमूर्तिः ।।
नागेनोरसि चामरेण चरणे बालेन्दुना फालके
पाण्योश्चक्रगदाधनुर्डमरुकै मनि त्रिशूलेन च ।
तत्तस्याद्भुतमाकलय्य ललित लेखाको लाञ्छितं
चित्रं गात्रममंस्त तत्र जनता नेत्रनिमेषोज्झितैः ।। ९२
सर्गे प्राथमिके प्रयाति विरतिं मार्गे स्थिते दौर्गते
स्वर्गे दुर्गमतामुपेयुषि भृशं दुर्गेऽपवर्गे सति ।
वगै देहभृतां निसर्गमलिने जातोपसर्गेऽखिले
सर्गे विश्वसृजस्तदीयवपुषा भर्गोऽवतीणों भुवि ।। ९३
इति श्रीमाधवीये तदवतारकथापरः।
संक्षेपशङ्करजये सर्गः पूर्णो द्वितीयकः ॥
आदितः श्लोकाः 191

तृतीयः सर्गः ॥ ३ ॥

देवावतारः॥


इति बालमृगाङ्कशेखरे सति बालत्वमुपागते ततः ।
दिविषत्मवराः प्रजज्ञिरे भुवि षट्शास्त्रविदां सतां कुले ॥१
कमलानिलयः कलानिधेविमलाख्यादजनिष्ट भूसुरात् ।
भुवि पद्मपदं वदन्ति यं सविपद्येन विवादिनां यशः ।।२