पृष्ठम्:शङ्करदिग्विजयः.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
174
[पोडशः
श्रीमच्छङ्करदिग्विजये

पदार्थभेदः स्फुट एव सिद्धस्तथेश्वरः सर्वजगद्विधाता ।
स ईशवादीत्यु दितेऽभिनन्द्य नैयायिकोऽपि न्यतन्निरोधात् ॥७०

तं कापिल: माह च मूलपोनिः किं वा स्वतन्त्रा चिदधिष्ठिता वा ।
जगन्निदानं वद सर्वविचान्नो चेलवेशस्तव दुर्लभः स्यात् ॥ ७१

सा विश्वयोनिर्बहुरूपभागिनी स्वयं स्वतन्त्रा त्रिगुणालिका सती ।
इत्येव सिद्धान्तगतिस्तु कापिली वेदान्तपक्षे परतन्त्रता मता ॥ ७२

ततो नदन्तो न्यरुवन् सगर्वा दत्वा परीक्षां व्रज धाम देव्या: ।
बौद्धास्तथा संपथिताः पृथिव्यां बाह्यार्थविज्ञानकशुन्यवाढैः ॥७३

बाह्यार्थवादो द्विविधस्तदन्तरं वाच्यं विविक्षुर्यदि देवतालयम् ।
विज्ञानवादस्य च कि विभेदकं भवन्मतादब्रूहि ततः परं व्रज ॥७४

सौत्रान्तिको वक्ति हि वेद्यजातं लिखाधिगम्यं स्त्रितरोऽक्षिगम्यम् ।
तयोस्तयोर्भङ्गुरताऽविशिष्टा भेदः क्रियान्वेदनवेद्यभागी ॥७५

विज्ञानवादी क्षणिकत्वमेपामङ्गीचकारापि बहुत्वमेषः ।
वेदान्तवादी स्थिरसंविदेक सङ्कीचकारेति महान्विशेषः ॥३६

अथाब्रवीद्दिग्वसनानुसारी रहस्य मेकं वद सर्वविचेत् ।
यदस्तिकायोत्तरशब्दवाच्यं तत्कि मतेऽस्मिन्वद देशिकाऽऽशु ॥ ७७

 तत्राssड देशिकवर: मृणु रोचते
  चेज्जीवादिपञ्चकममीटमुढाहरन्ति ।
 तच्छन्दवाच्यमिति जैनम ने प्रशस्ते
  यद्यस्ति बोद्धुमपरं कथयाऽऽशु तन्मे ॥७८

दत्तोत्तरे वादिगणे तु बाये बयाण कश्चित्कल जैमिनीयः ।
शब्द: किमात्मा वद जैमिनीये द्रव्यं गुणो वेति ततो व्रज त्वम् ।। ७९

नित्या वर्णाः सर्वगाः श्रोत्रवेद्या ग्रत्तद्रपंशब्दजालं च नित्यम् ।
द्रव्यं व्यापीत्यब्रुवञ्जमिनीया इत्येवं तं भोक्तवान्देशिकेन्द्रः ॥ ८०