पृष्ठम्:शङ्करदिग्विजयः.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
170
[षोडशः
श्रीमच्छङ्करदिग्विजये

जनपदो विरलो गदहारकैर्बहुल रुग्णजन: प्रकृतेरतः ।
मृगयते भवतो भवतां गृहे गदिजन: सहितुं गदमक्षमः ॥२४

पितृकृता जनिरस्य शरीरिणः समवनं गदहारिषु तिष्ठति ।
जनितमप्यफलं भिषजं विना भिषगलौ हरिरेव तनुभृतः ॥२५

यदुदितं भवता वितथं न तत्तदपि न क्षमते व्रजितुं मनः ।
सुरभुवं प्रविहाय मनुष्यगां व्रजितुमिच्छति कोऽत्र नरः सुधीः ॥ २६

इति निगद्य ययुभिषजां गणा विमनसः पटवोऽपि निजान् गृहान् ।
अथ मुनिर्विजहन्मपतां तनौ गुरुवरो गुरुदु:खमसोढ सः ॥

प्रथितैरवनौ परः सहस्रैरगदंकारचयैरथा चिकित्स्ये ।
प्रबले सति हा भगन्दराख्ये स्मरति स्म स्मरशासनं मुनीन्द्रः ॥ २८

स्मरशासनशासनान्नियुक्तों द्विजवेषं प्रविधाय भूमिमाप्तौ ।
उपसेदतुरश्विनौ च देवौ सुभुजौ साञ्जनलोचनौ सुपुस्तौ ॥ २९

यतिवर्य चिकित्सितुं न शक्या परकृत्याजनिता हि ते रुगेषा ।
इति तं समुद्रीर्य योगिवर्य विबुधौ तौ प्रतिजग्मतुर्यथेतम् ॥ ३०

तदनु स्वगुरोर्गदापनुच्यै परमन्त्रं तु जजाप जातमन्युः ।
मुहुरार्यपदेन वार्यमाणोऽप्यरिवर्गेऽप्यनु कम्पिनाऽजपादः ॥३१

अमुनैव ततो गदेन नीच: प्रतियातेन हतो ममार गुप्तः ।
मतिपूर्वकृतो महानुभावेष्वनयः कस्य भवेत्सुखोपलब्ध्यै ॥३२

स्वस्थः सोऽयं ब्रह्म सायं कदाचिद्ध्यायन् गङ्गापुरसङ्गार्द्रवातैः ।
आगच्छन्तं सैकते प्रत्यगच्छद्योगांशानं गौडपादाभिधानम् ॥ ३३

पाणौ फुल्लश्वेतपङ्केरुहश्रीमैत्रीपात्रीभूतभासा घटेन ।
आराद्राजकैर वानन्द सन्ध्यारागारक्ताम्भोदलीलां दधानम् ॥ ३४

पाणौ शोणाम्भोजबुद्धया समन्तादभ्राम्यङ्गीमण्डलीतुल्यकुल्याम् ।
अगुल्यग्रासङ्गिरुद्राक्षमालामङ्गुष्ठाग्रेणासकृद्भ्रामयन्तम् ॥३५