पृष्ठम्:शङ्करदिग्विजयः.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १६]
171
श्रीमदाचार्याणां शारदापीठवासयर्णनम्

आर्यस्याथो गौढपादस्य पादावभ्यर्चासौ शङ्करः पङ्कजाभौ ।
भक्तिश्रद्धासंभ्रमाक्रान्तचेताः महस्तस्थावग्रतः पाञ्जलि: सन् ॥३६

सिञ्चन्नेनं क्षीरवाराशिवीची साचिव्यायाऽऽसन्नय कटाक्षैः ।
दन्तज्योत्स्नादन्तुराचापि कुर्वन्नाशाः सूक्ति सन्दधे गोढपादः ॥३७

कञ्चित्सर्वो वेत्सि गोविन्दनाम्नो हृद्या विद्या संसदुद्धारकृया ।
कच्चित्तत्त्वं तत्त्वमानन्दरूपं नित्यं सञ्चिन्निर्मलं वेत्सि वेद्यम् ॥३८

भक्त्या युक्ता स्वानुरक्ता विरक्ताः शान्ता दान्ताः सन्ततं श्रद्धधानाः ।
कच्चित्तस्त्रज्ञानकामा विनीताः शुश्रूषन्ते शिष्यवर्या गुरुं त्वाम् ॥३९

कच्चिन्नित्या: शत्रवो निर्जितास्ते कश्चित्माप्ताः सद्गणाः शान्तिपूर्वा: ।
कच्चिद्योगः साधितोऽष्टाङ्गयुक्तः कच्चिच्चित्तं साधुचित्तत्वगं ते ॥४०

इत्यद्वैताचार्यवर्येण तेन प्रेम्णा पृष्टः शङ्कर: साधुशीलः ।
भत्तयुद्रेकाद्वाष्पपर्याकुलाक्षी बन्नमूर्धन्यञ्जलिं व्याजहार ॥४१

यद्यत्पृष्टं स्पष्टपाचार्यपादैस्तत्तत्सर्वे भो भविष्यत्यवश्यम् ।
कारुण्याब्धेः कल्पयुष्मत्कटाक्षैर्दृष्टस्याऽऽहुर्दुर्लभं किंनु जन्तोः ॥४२

मूको वाग्मी मन्दधी: पण्डिताग्र्य: पापाचार: पुण्यनिष्ठेषु गण्यः ।
कामासक्तः कीर्तिमान्त्रि. स्पृहाणामार्यापाङ्गालोकतः स्यात्क्षणेन ॥४३

लेशं वाऽपि ज्ञातुर्माष्टे पुमान्कः सीमातीतस्याद्य युष्मन्महिम्नः ।
तुष्ट्वाऽत्यन्तं तत्त्वविद्योपदेष्टा जातः साक्षाद्यस्य वैयास किः सः ॥४४

आजानात्मज्ञान सिद्धं यमारादौदासीन्याज्जातमात्रं वजन्तम् ।
प्रेमावेशात्पुत्र पुत्रेति शोचन्पाराशर्य: पृष्ठतोऽनुप्रपेदे ॥४५

यथाऽऽतो योगभाष्यप्रणेला पित्रा प्राप्तः स प्रपञ्चैकभावम् ।
सर्वा हन्ताशीलना द्योगभूमेः प्रत्याक्रोशं प्रातनोदृक्षरूपः ॥४६

तत्तादृक्ष ज्ञानपाथो धियुष्मत्पादद्वन्द्व पद्मसौहार्दह्यम् ।
देवादेत दीनदृग्गोचरश्चेद्भक्तस्यैतद्भागधेयं ह्यमेयम् ॥४७