पृष्ठम्:शङ्करदिग्विजयः.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १६]
169
श्रीमदाचार्याणां शारदापीठवासवर्णनम्

सत्यं गुरो ते न शरीरलोभः स्पृहालुता नस्तु चिराय तस्मै ।
त्वज्जीवनेनैव हि जीवनं नः पाथवराणां जलमेव तद्धि ॥१२

स्वयं कृतार्था: परतुष्टिहेतोः कुर्वन्ति सन्तो निजदेहरक्षाम् ।
तस्माच्छरीरं परिरक्षणीयं त्वयाऽपि लोकस्य हिताय विद्वन् ॥१३

निर्वन्धतो गुरुवर: मददावनुज्ञां दिग्भ्यो भिषम्बरसमानयनाय तेभ्यः ।
नत्वा गुरुं प्रतिदिशं प्रययुः महृष्टाः शिष्याः मत्रासकुशळा हरिभक्तिभाजः ॥१४

प्रायो नृपं कविजना भिषजो वदान्यं वितार्थिनः प्रतिदिनं कुशला जुषन्ते ।
तस्मादमी नृपपुरेषु निरीक्षणीया इत्येव चेतसि मनोरथमादधानाः ॥१५

तेऽतीत्य देशान् बहुलान् स्वकार्यसिद्धयै कचिद्राजपुरे भिषग्भः ।
अवाप्य सन्दर्शनभाषणानि समानयंस्तान गुरुवर्यपार्श्वम् ॥१६

ततो द्विजेन्द्रैर्निजसेवकैस्तान् सन्तोषितान् स्वाभिमतार्थदानैः ।
यदव कर्तव्यमुदीर्यतां तत्कुर्मः स्वशक्त्येति वदाञ्जगौ सः ॥ १७

उपगुदं भिषजः परिबाधते गद उदेत्य तनुं तनुमध्यगः ।
यदिदमस्य विधेयध्रुवं चदत रोगतमस्तिमिरारयः ॥१८

चिरमुपेक्षितवानहमेतकं दुरितजोऽयमिति प्रतिभाति मे ।
तदपि शिष्यगणैर्निर हिंस्यहं महितवान् भवदानयनाय तान् ॥१९

निगदिते मुनिति भिषग्वरा विदधिरे बहुधा गदसत्क्रियाः ।
न च शशाम गर्दा बहुतापदो विमनसः पटवो भिषजोऽभवन् ॥२०

अथ मुनिर्विमनस्त्वसमन्वितानिदमवोचत सिद्धभिषग्वरान् ।
अटल गेहमगात्समय बहुर्गदहते भवतामित ईयुषाम् ॥२१

दिनचर्य गणयन पथिलोचन: प्रियजनो निवसेद्विरहातुरः ।
नरपतिर्भवतां शरणं ध्रुवं स च विदेशगमं श्रुतवान्यदि ॥ २२

रुषितवान्न च वो वितरेन्नृपः फणितजीवितमक्षतशासनः ।
तुरगवन्नृपतिश्चलमानसो भिषजमन्यमसौ विदधीत वा ॥ २३