पृष्ठम्:शङ्करदिग्विजयः.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १५]
155
आचार्यकृतदिग्विजयवर्णनम्

बहुल भ्रमवानयं जडात्मा सुमनोभिर्मथितश्च पूर्वमेव ।
इति सिन्धुमुपेक्ष्य स क्षमावानिव गोकर्णमुदारधीः प्रतस्थे ॥३१

अवगाह्य सरित्पति स तत्र प्रियमासाद्य तुषारशैलपुत्रया: ।
स्तवसत्तममद्भुतार्थचिंत्र रचयामास भुजङ्गवृत्तरम्यम् ॥३२

तदनन्तरमागमान्तविद्यां प्रणतेभ्यः प्रतिपादयन्तमेनम् ।
हरदत्त समाइयोऽधिगम्य स्वगुरुं सङ्गिरते स्म नीलकण्ठम् ॥३३

भगवन्निह शङ्कराभिधानो यतिरागत्य जिगीपुरार्यपादान् ।
स्ववशीकृतभट्टमण्डनादिः सह शिष्यैगिरिशालये समास्ते ॥३४

इति तद्वचनं निशम्य सम्यग्ग्रथितानेकनिवन्धरत्नहारः ।
शिवतत्पर स्वभाष्यकर्ता महसन् वाचमुवाच शैववर्यः ॥३५

सरितां पतिमेष शोषयेद्वा सवितारं वियतः प्रपातयेद्वा ।
पटवत्सुरवर्त्म वेष्टयेद्वा विजये नैव तथाऽपि मे समर्थः ॥३६

परपक्षतमिस्रचञ्चदर्मम तर्फेबहुधा विशीर्यमाणम् ।
अधुनैव मतं निजं स पश्यत्त्रिति जल्पन्निरगादनल्पकोपः ॥३७

सितभूतितरङ्गिताखिलाः स्फुटरुद्राक्षकलापकाकण्ठैः ।
परिवीतमधीत शैवशास्त्रैर्मुनिरायान्तममुं ददर्श शिष्यैः ॥३७

अधिगत्य महर्षिसन्निकर्ष कविरातिष्ठिपदात्मपक्ष मेषः ।
शुकतातकृतात्मशास्त्रतः प्राक्कपिलाचार्य इवाऽऽत्मशास्त्रद्धा ॥३८

परपक्षविसावलीमरावचनैस्तस्य मतं चखण्ड दण्डी ।
अथ नीलगल: स्वपक्षरक्षां जहदद्वैतमपाकरिष्णुरूचे ॥३९

भगवन् क्षणमात्रमीक्ष्यतां तत्मथमं तु स्फुरदुक्तिपाटवं मे ।
इति देशिकपुङ्गवं निवार्य व्यवत्तेन सुरेश्वरः सुधीशः ॥ ४०

सुमते तब कौशलं विजाने स्वयमेवैष मुनिः प्रतिब्रवीतु ।
इति तं विनिवर्त्य नीलकण्ठो यतिकण्ठीरवसंमुखस्तदाऽऽसीत् ॥ ४१