पृष्ठम्:शङ्करदिग्विजयः.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
154
[पञ्चदशः
श्रीमच्छङ्करदिग्विजये

अवनीभृति योधयत्यरींस्तांस्त्वरयैकल ततोऽन्यतो नियुक्ताः ।
क्रकचेन वधाय भूसुराणां द्रुतमासेदुरुदायुधाः सहस्रम् ॥१९

अवलोक्य कपालिसमाराच्छमनानीकनिकाशमापतन्तम् ।
व्यथिताः प्रतिपेदिरे शरण्यं शरणं शङ्करयोगिनं द्विजेन्द्राः ॥२०

असितोमर पट्टिशत्रिशूलैः प्रजिघांसून भृशमुज्झिताहासान् ।
यतिराट् स चकार भस्मसात्तान्निनहुङ्कारभुवाऽग्निना क्षणेन ॥ २१

नृपतिश्च शरैः सुवर्णपुङ्खैर्विनिकृत्तैः प्रतिपक्षवक्तूपद्मैः ।
रणरङ्गभुवं सहस्रसः समलंकृत्य मुदाऽगमन्मुनीन्द्रम् ॥२२

तदनु क्रकचो हतान् स्वकीयानरुजांच द्विजपुङ्गवानुदीक्ष्य ।
अतिमात्र विद्यमानचेता यतिराजस्य समीपमाप भूयः ॥२३

कुमताश्रय पश्य मे प्रभावं फलमाप्स्यस्यधुनैव कर्मणोऽस्य ।
इति हस्ततले दधत्कपालं क्षणमध्यायदसौ निमींल्य नेत्रे ॥२४

सुरया परिपूरितं कपालं झटिति ध्यायति भैरवागमज्ञे ।
स निपीय तदर्धमर्धमस्या निदधार स्मरति स्म भैरवं च ॥२५

अथ मर्त्यशिरः कपालमाली ज्वलनज्वालजटाछट त्रिशुली ।
विकटपकटाट्टहासशाली पुरतः प्रादुरभून्महाकपाली ॥२६

तव भक्तजनद्रहं दृशा सञ्जहि देवेति कपालिना नियुक्तः ।
कथमात्मनि मेऽपराध्यसीति क्रकचस्यैव शिरो जहार रुष्टः ॥ २७

यमिनामृषभेण संस्तुतः सन्नयमन्तर्धिमवाप देववर्यः ।
अखिलेsपि खिले कुले खलानाममुमानर्चुरलं द्विजा: प्रहृष्टाः ॥२८

यतिराडथ तेषु तेषु देशेष्विति पाषण्डपरान् द्विजान् विमध्नन् ।
अपरान्तमहार्णवोपकण्ठं प्रतिपेदे प्रतिवादिदर्पहन्ता ॥ २९

विललास चलत्तरङ्गहस्तैनंदराजोऽभिनयन्निगूढपर्थम् ।
अवधीरितदुन्दुभिस्वनेन प्रतिवादीव महान् महारेण ॥ ३०