पृष्ठम्:शङ्करदिग्विजयः.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १५]
153
आचार्य कृतदिग्विजयवर्णनम्

अभिगम्य स भक्तिपूर्वमस्यां कृतपूज: ऋथकैशिकेश्वरेण ।
निज शिष्य निरस्तदुष्टबुद्धीन व्यदधाद्भैरवतन्त्रसावलम्बान् ॥७

अभिवाद्य विदर्भराडवादीदय कर्णाटवसुन्धरामियासुम् ।
भगवन् बहुभि: कपालिजालैः स हि देशो भवतामगम्यरूपः ॥८

न हि ते भगवद्यशः सहन्ते निहितेयः श्रुतिषु ब्रवीभ्यतोऽहम् ।
अहिते जगतां समुत्सहन्ते महितेषु प्रतिपक्षतां वहन्ते ॥ ९

इति वादिनि भूमिपे सुधन्वा यतिराजं निजगावधिज्यधन्वा ।
मयि तिष्ठति किं भयं परेभ्यस्तव भक्ते यतिनाथ पामरेभ्यः ॥ १०

अथ तीर्थकराग्रणी: प्रतस्थे किल कापालिकजालकं विजेतुम् ।
निशमय्य तमागतं समागात्क्रकचो नाम कपालिदेशिकाग्र्यः ॥ ११

पितृ काननभस्मनाऽनुलिप्तः करसंप्राप्त करो टिरात्तशुल: ।
सहितो बहुभिः स्वतुल्यवेषैः स इति स्माऽऽह महामनाः सगर्व: ॥ १२

भसितं घृतमित्यदस्तु युक्तं शुचि संत्यज्य शिरःकपालमेतत् ।
वहथाशुचि खर्परं किमर्थ न कथंकारमुपास्यते कपाली ॥१३

नरशीर्ष कुशेशयैरलब्ध्वा रुधिराक्तैर्मधुना च भैरवार्चाम् ।
उमया समया सरोरुहाक्ष्या कथमाश्लिष्टत्रपुर्मुदं प्रयायात् ॥१४

इति जल्पति भैरवानमानां हृदयं का पुरुषेति तं विनिन्द्य ।
निरवासयदात्मवित्समाजात् पुरुषैः स्वैरधिकारिभिः सुधन्वा ॥ १५

भ्रुकुटीकुटिलाननथळोष्टः सितमुद्यम्य परश्वधं स मूर्खः ।
भवतां न शिरांसि चेविभिन्द्यां क्रकचो नाहमिति ब्रुवन्नयासीत् ॥ १६

रुषितानि कपालिनां कुलानि मलयाम्भोधरभीकरारवाणि ।
अमुना महितान्यतिप्रसंख्यान्यभियातानि समुद्यतायुधानि ॥ १७

अथ विपकुलं भयाकुलं तद्व्रतमालोक्य महारथः सुधन्वा ।
कुपितः कवची रथी निषङ्गी धनुरादाय ययौ शरान विमुञ्चन् ॥ १८