पृष्ठम्:शङ्करदिग्विजयः.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
148
[चतुर्दशः
श्रीमच्छङ्करदिग्विजये

स्वमग्रणीर्दाशरथे धनुर्भृतां तवानुजस्यापि समो न लक्ष्यते ।
लवङ्गमानामधिपस्य कोटिशो मा मुञ्च मा मुञ्च वचो विनार्थम् ॥ १२९

सहाय संपत्तिरियं तवास्ति हितोपदेष्टाऽप्यहमस्मि कश्चित् ।
वारां निधिः किं कुरुते तवायं स्मराधुना गोष्पदमात्रमेनम् ॥ १३०

पुरेव चार्वब्धिमहं पिबामि शुष्केऽत्र तेन प्रतियाहि लङ्काम् ।
एवं मया कीर्तिरूपार्जिता स्याद्वद्धे तु वा तव सार्जिता स्यात् ॥

सेतुं वाघ बन्धयित्वा जहि त्वं दुष्टं चौर्याद्येन सीता हृताऽऽसीत् ।
मामोषि स्वं कीर्तिमाचन्द्रतारं तेनात्राब्धि बन्धय त्वं कपीन्द्रैः ॥ १३२

इत्थं यत्र प्रेरितेऽगस्त्यवाचा सेतुं रामो बन्धयामास वार्धी ।
तु:शृङ्गैर्वानरैस्तेन गत्ला तं हत्वाऽऽजौ जानकीमानिनाय ॥ १३३

तत्तादृक्षे तत्र तीर्थे स भिक्षुः स्नात्वा भक्त्या रामनाथं प्रणम्य ।
तत्र श्रद्धोत्पत्तये मानुषाणां शिष्येभ्यस्तद्वैभवं सम्यगूचे ॥ १३४

तन्माहात्म्यं वर्णयन्तं मुनिं तं पच्छेनं कश्चिदेवं विपश्चित् ।
रामेशाख्या किंसमासोपपन्ना पृष्टस्त्रेधाऽत्रोचदेवं समासम् ॥ १३५

रघूहस्तत्पुरुषं परं जगौ शिवो बहुव्रीहिसमासमैरयत् ।
रामेश्वरे नामनि कर्मधारयं परं समाहुः स्म सुरेश्वरादयः ॥ १३६

एवं निश्चित्योदितं तत्समासं श्रुत्वा तत्रत्यो बुधो योऽभ्यनन्दत् ।
अम्भोजाङ्‌ङ्घ्रिस्तैरथ स्तूयमानः कश्चित्कालं तत्र योगीडनैषीत् ॥ १३७

तस्मादार्य: प्रस्थितोऽभूत् सशिष्यस्तीर्थस्त्रानोपात्त चित्तामलत्वः ।
पश्यन् देशान्मातुलीयं जगाहे गेहं दग्धं तस्य पुस्तेन सार्धम् ॥ १३८

श्रुत्वा किञ्चित् खेदमापेदिवान् स मत्वा मत्वा धैर्यमापे दिवान् सः ।
श्रावं श्रावं मातुलीयस्य तीव्र दाहं गेहस्यानुकम्पां व्यधत्त ॥ १३९

विश्वस्य मां निहितवानसि पुस्तभारं तं चादहद्भुतवहः पतितः प्रमादात् ।
तावान्न मे सदनदाइकृतोऽनुतापो यावांस्तु पुस्तक विनाशकृतो मम स्यात् ॥