पृष्ठम्:शङ्करदिग्विजयः.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १४]
147
पद्मपादतीर्थयात्रावर्णनम्

गच्छन्नसौ फुलमुनेजंगाम तमाश्रमं यत्र च रामचन्द्रः ।
अश्वत्थमूले न्यधित स्वचापं स्वयं कुशानामुपरि न्यषीदत् ॥ ११७

तीर्खा समुद्रं जनकात्मजाया: सन्दर्शनोपायमनीक्षमाणः ।
वसुन्धरायां प्रवणा: प्लवङ्गा न वारिराशौ प्लवनं क्षमन्ते ॥११८

सञ्चिन्तयन्निति कुशासनसंनिविष्टो ज्योतिस्तदैक्षत विदूरगमेव किञ्चित् ।
संव्याप्नुवज्जगदिदं सुखशीतलं यत्संप्रार्थनीयमनिशं मुनिदेवताभिः ॥

आगच्छदात्माभिमुखं निरीक्ष्य सर्वे तदुत्तस्थुरुदारवीर्याः ।
ततः पुमाकारम दृश्यतैतन्महाप्रभामण्डलमध्यवर्ति ॥१२०

मध्ये प्रभामण्डलमैक्षताञ्चितं शिवाकृतिं सर्वतपोमयं पुनः ।
लोपादिमुद्रासहितं महामुनि माबोधि कुम्भोद्भवमादराज्जनैः ॥ १२१

अगस्त्यश्वा रघुनन्दनस्ततः स खेदमन्तःकरणोत्थमत्यजत् ।
प्रायो महद्दर्शनमेव देहिनां क्षिणोति खेदं रविवन्महातमः ॥ १२२

सभामर्थ्यादिभिरर्चयित्वा रामस्तदधि शिरसा ननाम ।
तूष्णीं मुहूर्त व्यसनार्णवस्थो घृति समास्थाय पुनर्बभाषे ॥१२३

दृष्ट्वा भवन्तं पितृवत्प्रमोदे यन्मामगा दुःखमहार्णवस्थम् ।
मन्ये ममाऽऽत्मानपत्राप्तकामं वंशो महान्मे तपनात्मवृत्तः ॥१२४

न तत्र माहग्जनिता न जातः पदच्युतोऽहं प्रथमं सभार्य: ।
सलक्ष्मणोऽरण्यमुपागतश्च मारीचमायानिहतान्तरङ्गः ॥१२५

तत्रापि भार्यामहृत च्छलेन स रावणो राक्षसपुंगवो मे ।
सा चाधुनाऽशोकवने समास्ते कृशा वियोगात्स्वत एव तन्त्री ॥१२६

तींव समुद्रं विनिहत्य दुष्टं बलेन सीतां महता हरामि ।
थथा तथोपायमुदाहर त्वं न मे त्वदन्योऽस्ति हितोपदेष्टा ॥१२७

इतीरितो वाचमुवाच विद्वान्मा राम शोकस्य वशं गतो भूः ।
वंशद्वये सन्ति नृपा महान्तः संपाप्य दुःखं परिमुक्तदुःखाः ॥१२८