पृष्ठम्:शङ्करदिग्विजयः.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १४]
149
पद्मपादतीर्थयात्रावर्णनम्

इत्थं ब्रुन्तं तमथो न्यगादीत् पुस्तं गतं बुद्धेरवस्थिता मे ।
उक्त्वा समारब्ध पुनश्च टीकां कर्तु स धीरो यतिवृन्दवन्द्यः ॥ १४१

दृष्ट्वा बुद्धि मातुलस्तस्य भूयो भीतः प्रास्यद्भोजने सन्मनोन्नम् ।
किञ्चिद्रव्यं पूर्ववन्नाक्षमिष्ट टीकां कर्तु केचिदेवं ब्रुवन्ति ॥ १४२

अत्रान्तरेऽन्यैर्निजवच्चरद्भिः स्वैस्तीर्थयात्रां दयितैः सतीयैः ।
अर्थादुपेत्याऽऽश्रमतः कनिष्ठैज्ञत: सखेदैः समुनिः समैक्षि ॥ १४३

दृष्ट्वा पद्माङ्घ्रि क्रमात्ते प्रणेमुस्तत्पादाम्भोजीयरेणून दधानाः ।
अन्योन्यं द्रागाददुस्ते ददुश्चानेकानेहोयोगजैक्यान्नपांसि ॥ १४४

वाणीनिर्जित पन्नगेश्वरगुरुपाचेतसा चेतसा
विभ्राणा चरणं सुनेर्विरचितव्यापल्लवं पल्लवम् ।
धुन्वन्तं प्रभया निवारिततमाशङ्कापदं कामदं
रेजेऽन्तेव सतां समष्टिरसुहृत्तत्याहितात्याहिता ॥ १४५

शुश्राव साऽन्तेवसतां समष्टिः स्वदेशकीयां सुखदां सुवार्ताम् ।
अर्थात् समीपागततः कुतश्चिद द्विजेन्द्रतः सेवितसर्वतीर्थात् ॥ १४६

अथ गुरुवरमनवेक्ष्य नितान्तं व्यथितहृदो मुनिवर्य विनेयाः ।
कथमपि विदिततदीयसुवार्ता: समधिगताः किल केरलदेशान् ॥ १४७


अत्रान्तरे यतिपतिः प्रसुवोऽन्त्यकृत्यां कृत्वा स्वधर्मपरिपालनसक्त चित्तः ।
आकाशलङ्घिवरकेरमही रुहेषु श्री केरलेषु मुनिरास्त चरन् विरक्तः ॥

विचरन्नथ केरलेषु विष्वङ् निजशिष्यागमनं निरीक्ष्य मौनी ।
विनयेन महासुरालयेशं विनयन्नस्तुत निस्तुलानुभावः ॥ १४९

सदसत्व विमुक्तया प्रकृत्या चिदचिद्रपमिदं जगद्विचित्रम् ।
कुरुषे जगदीश लीलया त्वं परिपूर्णस्य न हि प्रयोजनेच्छा ॥ १५०

रजसा सृजसीश सत्ववृत्ति खिजगद्रक्षसि तामसः क्षिणोषि ।
बहुधा परिकीत्यंसे च स त्वं विधिवैकुण्ठ शिवाभिधाभिरेकः ॥ १५१