पृष्ठम्:शङ्करदिग्विजयः.djvu/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
सर्गः १]
9
उपोद्घातः

किमु दौहित्रदत्तेऽपि पुण्ये विलयमास्थिते ।
ययातिश्च्यवते स्वर्गात्पुनरित्यूचिरे जनाः ॥ ७६

अपि लोकगुरुः शैलात्तूलपिण्ड इवापतत् ।
श्रुतिरात्मशरण्यानां व्यसनं नोच्छिनत्ति किम् ॥ ७७

श्रुत्वा तदद्भुतं कर्म द्विजा दिग्भ्यः समाययुः ।
घनघोषमिवाकर्ण्य निकुञ्जेभ्यः शिखावलाः ॥ ७८

दृष्ट्वा तमक्षतं राजा श्रद्धां श्रुतिषु सन्दधे ।
निनिन्द बहुधाऽऽत्मानं खलसंसर्गदूषितम् ॥ ७९

सौगतास्त्वब्रुवन्नेदं प्रमाणं मतिनिर्णये ।
मणिमन्त्रौषधेरेवं देहरक्षा भवेदिति ॥ ८०

दुर्विधैरन्यथा नीते प्रत्यक्षेऽर्थेऽपि पार्थिवः ।
भृकुटीभीकरमुखः सन्धामुग्रतरां व्यधात् ॥ ८१

पृच्छामि भवतः किश्चिद्वक्तुं न प्रभवन्ति ये ।
यन्त्रोपलेषु सर्वांस्तान्घातयिष्याम्यसंशयम् ॥ ८२

इति संश्रुत्य गोत्रेशो घटमाशीविषान्वितम् ।
आनीयात्र किमस्तीति पप्रच्छ द्विजसौगतान् ॥ ८३

वक्ष्यामहे वयं भूप श्वः प्रभातेऽस्य निर्णयम् ।
इति प्रसाद्य राजानं जग्मुर्भूसुरसौगताः ॥ ८४

पद्मा इव तपस्तेपुः कण्ठद्वयसपाथसि ।
द्युमणि प्रति भूदेवाः सोऽपि प्रादुरभृत्ततः ॥ ८५

सन्दिश्य वचनीयांशमादित्येऽन्तर्हिते द्विजाः ।
आजग्मुरपि निश्चित्य सौगताः कलशस्थितम् ॥ ८६

ततस्ते सौगताः सर्वे भुजंगोऽस्तीत्यवादिषुः ।
भोगीशभोगशयनो भगवानिति भूसुराः ॥ ८७