श्रुतभूसुरवाक्यस्य वदनं पृथिवीपतेः ।
कासारशोषणम्लानसारसश्रियमाददे ॥ ८८
अथ प्रोवाच दिव्या वाक् सम्राजमशरीरिणी।
तुदन्ती संशयं तस्य सर्वेषामेव शृण्वताम् ॥ ८९
सत्यमेव महाराज ब्राह्मणा यद्बभाषिरे ।
मा कृथाः संशयं तत्र भव सत्यपतिश्रवः ॥ ९०
श्रुत्वाऽशरीरिणीं वाणीं ददर्श वसुधाधिपः ।
मूर्तिं मधुद्विषः कुम्भे सुधामिव सुराधिपः ॥ ९१
निरस्ताखिलसन्देहो विन्यस्तेतरदर्शनात् ।
व्यधादाज्ञां ततो राजा वधाय श्रुतिविद्विषाम् ॥ ९२
आसेतोरातुषाराद्रेर्बौद्धानावृद्धबालकम् ।
न हन्ति यः स हन्तव्यो भृत्यानित्यन्वशान्नृपः ॥ ९३
इष्टोऽपि दृष्टदोषश्चेद्वध्य एव महात्मनाम् ।
जननीमपि किं साक्षान्नावधीद्भृगुनन्दनः ॥ ९४
स्कन्दानुसारिराजेन जैना धर्मद्विषो हताः।
योगीन्द्रेणेव किं योगघ्ना विघ्नास्तत्त्वावलम्बिना ॥ ९५
हतेषु तेषु दुष्टेषु परितस्तार कोविदः ।
श्रौतवर्ष्म तमिस्रेषु नष्टेष्विव रविर्महः ॥ ९६
कुमारिलमृगेन्द्रेण हतेषु जिनहस्तिषु ।
निष्प्रत्यूहमवर्धन्त श्रुतिशाखाः समन्ततः ॥ ९७
प्रागित्थं ज्वनलभुवा प्रवर्तितेऽस्मिन् कर्माध्वन्यखिलविदा कुमारिलेन ।
उद्धर्तुं भुवनमिदं भवाब्धिमग्नं कारुण्याम्बुनिधिरियेष चन्द्रचूडः ॥ ९८
इति श्रीमाधवीये तदुपोद्घातकथापरः ।
संक्षेपशङ्करजये सर्गोऽयं प्रथमोऽभवत् ॥
आदितः श्लोकाः 98