पृष्ठम्:शङ्करदिग्विजयः.djvu/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
8
[प्रथमः
श्रीमच्छङ्करदिग्विजये

सभासमीपविटपिश्रितकोकिलकूजितम् ।
श्रुत्वा जगाद तद्व्याजाद्राजानं पण्डिताग्रणीः ॥ ६४

मलिनैश्चेन्न सङ्गस्ते नीचैः काककुलैः पिक ।
श्रुतिदूषकनिर्ह्रादैः श्लाघनीयस्तदा भवेः ॥ ६५

षडभिज्ञा निशम्येमां वाचं तात्पर्यगर्भिताम् ।
नितरां चरणस्पृष्टा भुजङ्गा इव चुक्रुधुः ॥ ६६

छित्त्वा युक्तिकुठारेण बुद्धसिद्धान्तशाखिनम् ।
स तद्ग्रन्थेन्धनैश्चीर्णैः क्रोधज्वालामवर्धयत् ॥ ६७

सा सभा वदनैस्तेषां रोषपाटलकान्तिभिः ।
बभौ बालातपाताम्रः सरसीव सरोरुहैः ॥ ६८

उपन्यस्यत्सु साक्षेपं खण्डयत्सु परस्परम् ।
तेषूदतिष्ठन्निर्घोषो भिन्दन्निव रसातलम् ॥ ६९

अधः पेतुर्बुधेन्द्रेण क्षताः पक्षेषु तत्क्षणम् ।
व्यूढकर्कशतर्केण तथागतधराधराः ॥ ७०

स सर्वज्ञपदं विज्ञोऽसहमान इव द्विषाम् ।
चकार चित्रविन्यस्तानेतान्मौनविभूषितान् ॥ ७१

ततः प्रक्षीणदर्पेषु बौद्धेषु वसुधाधिपम् ।
बोधयन्बहुधा वेदवचांसि प्रशशंस सः ॥ ७२

बभाषेऽथ धराधीशो विद्यायत्तौ जयाजयौ ।
यः पतित्वा गिरेः शृङ्गादव्यग्रस्तन्मतं ध्रुवम् ॥ ७३

तदाकर्ण्य मुखान्यन्ये परस्परमलोकयन् ।
द्विजाग्र्यस्तु स्मरन्वेदानारुरोह गिरेः शिरः ॥ ७४

यदि वेदाः प्रमाणं स्युर्भूयात्काचिन्न मे क्षतिः ।
इति घोषयता तस्मान्न्यपाति सुमहात्मना ॥ ७५