पृष्ठम्:शङ्करदिग्विजयः.djvu/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
सर्गः १]
7
उपोद्घातः

मुनी भूत्वा मुदोपास्तियोगकाण्डकृतौ स्थितौ ।
अग्रिमं ज्ञानकाण्डं तूद्धरिष्यामीति देवताः ॥ ५२

सम्प्रति प्रतिजाने स्म जानात्येव भवानपि ।
जैमिनीयनयाम्भोधेः शरत्पर्वशशी भव ॥ ५३

विशिष्टं कर्मकाण्डं त्वमुद्धर ब्रह्मणः कृते ।
सुब्रह्मण्य इति ख्याति गमिष्यसि ततोऽधुना ॥ ५४

नैगमीं कुरु मर्यादामवतीर्य महीतले ।
निर्जित्य सौगतान्सर्वानाम्नायार्थविरोधिनः ॥ ५५

ब्रह्माऽपि ते सहायार्थं मण्डनो नाम भूसुरः ।
भविष्यति महेन्द्रोऽपि सुधन्वा नाम भूमिपः ॥ ५६

तथेति प्रतिजग्राह विधेरपि विधायिनीम् ।
बुधानीकपतिर्वाणी सुधाधारामिव प्रभोः ॥ ५७

अथेन्द्रो नृपतिर्भूत्वा प्रजा धर्मेण पालयन् ।
दिवं चकार पृथिवीं स्वपुरीममरावतीम् ॥ ५८

सर्वज्ञोऽप्यसतां शास्त्रे कृत्रिमश्रद्धयाऽन्वितः ।
प्रतीक्षमाणः क्रौञ्चारीं मेलयामास सौगतान् ॥ ५९

ततः स तारकारातिरजनिष्ट महीतले ।
भट्टपादाभिधा यस्य भूषा दिक्सुद्दशामभूत् ॥ ६०

स्फुटयन्वेदतात्पर्यमभाज्जैमिनिसूत्रितम् ।
सहस्रांशुरिवानूरुव्यञ्जितं भासयञ्जगत् ॥ ६१

राज्ञः सुधन्वनः प्राप नगरीं स जयन्दिशः ।
प्रत्युद्गम्य क्षितीन्द्रोऽपि विधिवत्तमपूजयत् ॥ ६२

सोऽभिनन्द्याशिषा भूपमासीनः काञ्चनासने ।
तां सभां शोभयामास सुरभिर्द्यवनीमिव ॥६३