सामग्री पर जाएँ

पृष्ठम्:शङ्करदिग्विजयः.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १४]
139
पद्मपादतीर्थयात्रावर्णनम्

 यदापदपदं सदा यतिवर स्थितं वस्तु त
  न्मतं भज मितंपचान् मनसि मा कृथाः प्राकृतान् ।
 कषायकलुषाशयक्ष तिविनिर्वृतः सन्मतः
  सुखी चर सुखे चिरात् स्फुरति संततानन्दता ॥२७

इत्यं गुरोर्मुख गुहोदितवाक्सुधां तामापीय हृष्टहृदयः स मुनिः मतस्थे ।
प्रस्थाप्य तं गुरुवरोऽथ सुरेश्वराद्यैः कालं कियन्तमनयत् सह शृङ्गकुधे ॥

अधिगम्य तदाऽऽत्मयोगशक्तेरनुभावेन निवेद्य चाऽऽश्रवेभ्यः ।
अवलंबिततारकापथोऽसावचिरादन्तिकमाससाद मातुः ॥२९

तत्राऽऽतुरां मातरमैक्षतासौ ननाम तस्याश्चरणौ कृतात्मा ।
सा चैनमुद्रीक्ष्य शरीरतापं जहौ निदाघार्त इवाम्बुदेन ॥३०

असावसङ्गोऽपि तदाऽऽर्द्रचेतास्तामाह मोहान्धतमोपहर्ता ।
अम्बायमस्त्यत्र शुचं जहीहि मब्रूहि किं ते करवाणि कृत्यम् ॥

दृष्ट्वा चिरात् पुत्रमनामयं सा हृष्टान्तरात्मा निजगाद मन्दम् ।
अस्यां दशायां कुशली पया त्वं दिष्टयाऽसि दृष्टः किमतोऽस्ति कृत्यम् ॥

इतः परं पुत्रक गात्रमेतद्द्वोढुं न शक्नोमि जरातिशीर्णम् ।
संस्कृत्य शास्त्रोदितवर्त्मना त्वं सद्वृप्त मां प्रापय पुण्यलोकान् ॥ ३३

सुतानुगां सूक्तिमिमां जनन्याः श्रुत्वाऽथ तस्यै सुखरूप मेकम् ।
मायामयाशेष विशेषशुन्यं मानातिगं स्वप्रभमप्रमेयम् ॥३४

उपादिशद्रह्म परं सनातनं न यत्र हस्ताङघ्रि विभागकल्पना ।
अन्तर्वहि: संनिहितं यथाऽम्बरं निरामयं जन्मजरादिवर्जितम् ॥ ३५

सौम्यागुणे मे रमते न चित्तं रम्यं वद त्वं सगुणं तु देवम् ।
न बुद्धिमारोहति तस्वमात्रं यदेकमस्थूलपनण्वगोत्रम् ॥३६

निशम्य मातुर्वचनं दयालुस्तुष्टाव भक्त्या मुनिरष्टमूर्तिम् ।
वृत्तैभुजङ्गोषपदैः प्रसन्नः प्रस्थापयामास स च स्वदूतान् ॥३७