पृष्ठम्:शङ्करदिग्विजयः.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
140
[चतुर्दशः
श्रीमच्छङ्करदिग्विजये

विलोक्य तापिनाकहस्तान्नैवानुगच्छेयमिति ब्रुवत्याम् ।
तस्यां विसृज्यानुनयेन शैवानस्तौदथो माधवमादरेण ॥३८

भुजगाधिपभोगतल्पभाजं कमलाङ्कस्थलकल्पिताघ्रिपद्मम्
अभिवी जितमादरेण नीलावसुधाभ्यां चलमानचामराभ्याम् ॥३९

विहिताञ्जलिना निषेव्यमाणं विनतानन्दकृताऽग्रतो रथेन ।
धृतमृतिभिरस्त्रदेवताभिः परितः पञ्चभिरञ्चितोपकण्ठम् ॥४०

महनीयतमालकोमलाङ्गं मुकुटीरत्नचयं महाईयन्तम् ।
शिशिरेतरभानुशीलिताग्रं हरिनीलोपलभूधरं हसन्तम् ॥४१

तत्तादृशं निजसुतो दितमम्बुजाक्षं चित्ते दधार मृतिकाल उपागतेऽपि ।
चित्तेन कञ्जनयनं हृदि भावयन्ती तत्याज देहमवला किल योगिवत्सा ॥

ततः शरच्चन्द्रमरीचिरोचिर्विचित्रपारिपुत्र के तनाढ्यम् ।
विमानमादाय मनोज्ञरूपं प्रादुर्बभूवुः किल विष्णुदूताः ॥४३

वैमानिकांस्तान्नयनाभिरामानवेक्ष्य हृष्टा प्रशशंस पुत्रम् ।
विमानमारोग्य विराजमानमनायि तैः सा बहुमानपूर्वम् ॥४४

इयमर्चिरहर्वलक्षपक्षान् षडुदङ्माससमानिलार्क चन्द्रान् ।
चपलावरुणेन्द्रघातृलोकान् क्रमशोऽतीत्य परं पदं प्रपेदे ॥४५

स्वयमेव चिकीर्षुरेष मातुश्वरमं कर्म समाजुहाव बन्धून् ।
किमिहास्ति यते तत्राधिकारः कितवेत्येनममी निनिन्दुरुचः ॥ ४६

अनलं बहुधाऽर्थिताऽपि तस्मै बत नाऽऽदत्त च बन्धुता तदीया ।
अथ कोपपरीवृतान्तरोऽसाव खिलांस्तानशपच्च निर्ममेन्द्रः ॥ ४७

सञ्चित्य काष्ठानि सुशुष्कवन्ति गृहोपकण्ठे धृततोयपात्रः ।
स दक्षिणे दोष्णि ममन्थ वह्निं ददाइ तां तेन च संयतात्मा ॥ ४८

न याचिता वह्निमदुर्यदस्मै शशाप तान् स्वीयजनान् सरोषः ।
इतः परं वेदबहिष्कृतास्ते द्विजा यतीनां न भवेच्च भिक्षा ॥ ४९