पृष्ठम्:शङ्करदिग्विजयः.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १४]
137
पद्मपादतीर्थयात्रावर्णनम्

नास्त्युत्तरं गुरु गिरस्तदपीह वक्ष्ये सत्यं यदाह भगवान गुरुपार्श्ववासः ।
श्रेयानिति प्रथम संयमिनामनेकान् देशानवीक्ष्य हृदयं न निराकुलं मे ॥

सर्वत्र न कापि जलं समस्ति पश्चात् पुरस्तादथवा विदुक्षु ।
मार्गो हि विद्येत न सुव्यवस्थ: सुखेन पुण्यं क्व नु लभ्यतेऽधुना ॥९

 जन्मान्तरार्जितमधं फलदानहेतो-
  वर्याध्यात्मना जनिमुपैति न नो विवादः ।
 साधारणादिह च वा परदेशके वा
  कर्म ह्यभुक्तमनुवर्तत एव जन्तुम् ॥१०

इह स्थितं वा परतः स्थितं वा कालो न मुञ्चेत् समयागतश्चेत् ।
तद्देशगत्याऽमृत देवदत्त इत्यादिकं मोहकृतं जनानाम् ॥ ११

मन्वादयो मुनिवरा: खलु धर्मशास्त्रे धर्मादि संकुचितमाहुरतिमवृद्धम् ।
देशाद्यवेक्ष्य न तु तत्सरणिं गतानां शौचायतिक्रमकृतं प्रभवेद्यं नः ॥

दैवेऽनुकूले विपिनं गतो वा समानुयाद्वाञ्छितमन्नमेषः ।
द्वियेत नश्येदपि वा पुरस्थं तस्मिन् प्रतीपे तत एव सर्वम् ॥१३

गृहं परित्यज्य विदेशगो ना सुखं समागच्छति तीर्थदृश्वा ।
गृहं गतो याति मृति पुरस्तात्तदागमादत्र च किं निमित्तम् ॥१४

देशे कालेऽवस्थितं तद्विमुक्तं ब्रह्मानन्दं पश्यतां तत्र तत्र ।
चित्तैकाव्ये विद्यमाने समाधिः सर्वत्रासौ दुर्लभो नेति मन्ये ॥१५

सत्तीर्थसेवा मनसः प्रसादिनी देशस्य वीक्षा मनसः कुतूहलम् ।
क्षिणोत्यनर्थान् सुजनेन सङ्गमस्तस्मान्न कस्मै भ्रमणं विरोचते ॥

अटाट्यमानोऽपि विदेशसङ्गति लभेत विद्वान् विदुषाऽभिसङ्गतिम् ।
बुधो बुधानां खलु मित्रमीरितं खलेन मैत्री न चिराय तिष्ठति ॥ १७

समीपवासोऽयमुदीरतो गुरोर्विदेशगो यद् हृदयेन धारयेत् ।
समीपगोऽप्येष न संस्थितोऽन्तिके न भक्तिहीनो यदि धारयेद् हृदि ॥
१३