सामग्री पर जाएँ

पृष्ठम्:शङ्करदिग्विजयः.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
136
[चतुर्दशः
श्रीमच्छङ्करदिग्विजये

ते सर्वेऽप्यनुमतिमाप्य देशिकेन्दोरानन्दाचलमुखरा महानुभावाः ।
आतेनुर्जगति यथास्वमात्मतत्वाम्भोजानि विशदतरान् बहूनिबन्धान ॥

  इति श्रीमाधवीये तद्वार्तिकान्तमवर्तनः ।
  संक्षेपशङ्करजये पूर्णः सर्गस्त्रयोदशः ॥ १३ ॥

आदितः श्लोकाः 1387.


अथ चतुर्दशः सर्गः ॥ १४ ॥


पद्मपादतीर्थयात्रावर्णनम् ॥


अथाब्जपात् कर्तुपनाः स तीर्थयात्रामयाचिष्ट गुरोरनुज्ञाम् ।
देया गुरो मे भगवन्ननुज्ञा देशान्दिदृक्षे वहुतीर्थयुक्तान् ॥१

स क्षेत्रवासो निकटे गुरोर्यो वासस्तदीयानिजलं च तीर्थम् ।
गुरूपदेशेन यदात्मदृष्टिः सैव प्रशस्ताऽखिलदेवदृष्टिः ॥२

शुश्रूषमाणेन गुरोः समीपे स्थेयं न नेयं च ततोऽन्यदेशे ।
विशिष्य मार्गश्रमकर्शितस्य निद्राभिभूत्या किमु चिन्तनीयम् ॥३

द्विधा हि संन्यास उदीरितोऽयं विबुद्धतत्वस्य च तबुभुत्सोः ।
तत्त्वंपदार्थैक्य उदीरितोऽयं यत्नाचमर्थः परिशोधनीयः ॥४

 संभाव्यते क च जलं क च नास्ति पाथः
  शय्यास्थलं कचिदिहास्ति न च क चास्ति ।
 शय्यास्थलीजलनिरीक्षणसक्तचेताः
  पान्यो न शर्म लभते कलुषीकृतात्मा ॥५

ज्वरातिसारादि च रोगजालं बाधेत चेत्तर्हि न कोऽप्युपायः ।
स्थातुं च गन्तुं च न पारयेत तदा सहायोऽपि विमुञ्चतीमम् ॥६

स्नानं प्रभाते न च देवतार्चनं क चोक्तशौचं क च वा समाधयः ।
क चाशनं कुत्र च मित्रसंगतिः पान्थो न शाकं लभते क्षुधातुरः ॥७