पृष्ठम्:शङ्करदिग्विजयः.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १३]
135
ब्रह्मविद्याविचारः

सत्यं यदात्थ विनयिन् मम याजुषी या शाखा तदन्तगतभाष्य निबन्ध इष्टः ।
तद्वार्तिकं मम कृते भवता प्रणेयं सच्चेष्टितं परहितैकफलं प्रसिद्धम् ॥

तद्वत्त्वदीया खलु काण्वशाखा ममापि तत्रास्ति तदन्तभाष्यम् ।
लहार्तिकं चापि विधेयमिष्टं परोपकाराय सतां प्रवृत्तिः ॥६६

 तत्रोभयत्र कुरु वार्तिकमार्तिहारि
  कीर्ति च याहि जितकार्तिकचन्द्रिकाभाम् ।
 मा शङ्कि पूर्वमिव दुःशठवाक्यरोधो
  महाक्यमेव शरणं व्रज मा विचारीः ॥६८

इत्थं स उक्तो भगवत्पदेन श्री विश्वरूपो विदुषां वरिष्ठः ।
चकार भाष्यद्वयवार्तिके द्वे ह्याझा गुरूगां ह्यविचारणीया ॥

आज्ञा गुरोरनुवरैर्न हि लङ्घनी येत्युक्त्वा तयोर्निगमशेखरयोरुदारम् ।
निर्माय वार्तिकयुगं निजदेशिकाय निःसीमनिस्तुलनधी रुपदां चकार ॥

सनन्दनो नाम गुरोरनुज्ञया भाष्यस्य टोकां व्यघितेरितः पराम् ।
यत्पूर्वभागः किल पञ्चपादिका तच्छेषगा वृत्तिरिति प्रथीयसी ॥ ७०

व्यासपिसूत्र निचयस्य विवेचनाय टीकाभिधं विजय डिण्डिममात्मकीर्तेः ।
निर्माय पद्मचरणो निरवचयुक्तिव्धं प्रवन्धमकरोद्गुरुदक्षिणां सः ॥

आलोचयन्नथ तदानुगति ग्रहाणामूचे सुरेश्वरसमाइयमुपहरे सः ।
पञ्चैव वत्स चरणा: मथिता इह स्युस्तत्रापि सूत्रयुगलद्वयमेव भूम्ना ॥

 प्रारब्धकर्मपरिपाकवशात् पुनस्त्वं
  वाचस्पतित्वमधिगम्य वसुन्धरायाम् ।
 भव्यां विधास्यसितमां मम भाष्यटीका-
  माभूतसंलयमधिक्षिति सा च जीयात् ॥७३

इत्येवमुक्त्वज्य यतीश्वरोऽसावानन्द गिर्यादिमुनीन् स हूत्वा ।
कुरुध्यमद्वैतपरान्निबन्धान्नित्यन्वशा निर्ममसार्वभौमः ॥७४