पृष्ठम्:शङ्करदिग्विजयः.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
134
[ त्रयोदशः
श्रीमच्छङ्करदिग्विजये

नैष्कर्म्यसिद्धयाख्यनिबन्धमेकं कृत्वाऽऽत्मपूज्याय निवेद्य चाऽऽप्त्वा ।
विश्वासमुक्त्वाऽथ पुनर्वभाषे स विश्वरूपो गुरुमात्मदेवम् ॥

न ख्यातिहेतोर्न च लाभहेतोर्नाप्यर्चनायै विहितः प्रवन्धः ।
नोल्लङ्घनीयं वचनं गुरूणां नोल्लङ्घने स्याद्गुरुशिष्यभावः ॥५५

पूर्व गृहीत्वेऽपि न तत्स्वभावो न बाल्यमन्वेति हि यौवनस्थम् ।
न यौवनं वृद्धमुपैति तद्वत् व्रजन् हि पूर्वस्थितिमोज्य गच्छेत् ॥ ५६

अहं गृही नात्र विचारणीय किं तेन पूर्व मन एव हेतुः ।
बन्धे च मोक्षे च मनोविशुद्धो गृही भवेद्वाऽप्युत मस्करी वा ॥५७

नास्त्येव चेदाश्रम उत्तमाऽऽदिः कथं च तत्माप्तिनिवृत्तिगामिनौ ।
प्रतिवनौ कथमल्पकालौ न हि प्रतिज्ञा भगवन्निरुद्धा ॥ ५८

संभिक्षमाणा न लभन्त एव चेद्रहप्रवेशं गुरुणा प्रवेशनम् ।
कथं हि भिक्षा विहिता ननुत्तमा को नाम लोकस्य मुखाभिधायकः ॥५९

तच्चोपदेशाद्वितितात्मतत्वो व्यधामहं संन्यसनं कृतात्मा ।
विरागभावान्न पराजितस्तु वादो हि तस्वस्य विनिर्णयाय ॥६०

पुरा गृहस्थेन मया प्रबन्धा नैयायिकादौ विहिता महार्थाः ।
इतः परं मे हृदयं चिकीर्षु वद घिसेवां न विलय किञ्चित् ॥ ६१

 श्रद्धामद्वैतबद्धादरबुधप. रेषच्छेमुषीसं निषण्णा-
  मर्वाग्दुर्वादिगर्वानल विपुलतरज्वालमालावलीढाम् ।
 सिक्त्वा मुक्तामृतौरदह परिसञ्जीवयस्यद्य सद्य:
  को वा सेवाप: स्याद्रणतरणविधौ सद्रोनैव जाने ॥ ६२

 इत्युक्त्वोपरते सुरेश्वरगुरौ तेनैव शारीरके
  नो संभाव्यहहात्र वार्तिकमिति प्रौढं शुपग्निं शनैः ।
 धीराज्य: शमयन्विवेकपयसा देवेश्वरेण त्रयी-
  भाष्ये कारयितुं स वार्तिकयुगं बद्धादरोऽभृन्मुनिः ॥ ६३

भावानुकारिमृदुवाक्यनिवेशितार्थ स्वीयैः पदैः सह निराकुतपूर्वपक्षम् ।
सिद्धान्तयुक्ति विनिवेशिततत्स्वरूपं दृष्ट्वाऽभिनन्य परितोषवशादवोचत् ॥