पृष्ठम्:शङ्करदिग्विजयः.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १२]
127
 

अध्यापयामास स भाष्यमुख्यान् ग्रन्थान्निजांस्तत्र मनीषिमुख्यान ।
आकर्णनमाध्यमहापुमर्थानादिष्ट विद्याग्रहणे समर्थान् ॥६६

मन्दाक्षनम्रं कलयन्नशेषं पराणुदत् प्राणितमांस्यशेषम् ।
निरस्तजीवेश्वरयो विशेष व्याचष्ट वाचस्पतिनिर्विशेषम् ॥ ६७

प्रकल्प्य तन्त्रेन्द्रविमानकल्पं प्रासादमाविष्कृत सर्वशिल्पम् ।
प्रवर्तयामास स देवतायाः पूजामजाद्यैरपि पूजितायाः ॥६८

या शारदेत्यभिधां वहन्ती कृतां प्रतिज्ञां प्रतिपालयन्ती ।
अद्यापि शृङ्गेरिपुरे वसन्ती प्रद्योततेऽभीष्टवरान् दिशन्ती ॥ ६९

चित्तानुवर्ती निजधर्मचारी भूतानुकम्पी तनुवाग्विभूतिः ।
कश्चिद्विनेयोऽजनि देशिकस्य यं तोडकाचार्यमुदाहरन्ति ॥७०
 
स्नात्वा पुरा क्षिपति कम्बलवस्त्र मुख्यैरुच्चासनं मृदु समं स ददाति नित्यम् ।
संलक्ष्य दन्तपरिशोधनकाष्ठमय्यं बाह्यादिकं गतवते सलिलादिकं च ॥

श्रीदेशिकाय गुरवे तनुमार्जवस्त्रं विश्राणयत्यनुदिनं विनयोपपन्नः ।
श्रीपादपद्मयुगमर्दनको विदश्च छायेव देशिकमसौ भृशमन्वयाद्यः ॥ ७२

गुरोः समीपे न तु जातु जृम्भते प्रसारयन्त्रो चरणौ निषीदति ।
नोपेक्षते वा बहु वा न भाषते न पृष्ठदर्शी पुरतोऽस्य तिष्ठति ॥ ७३

तिष्ठन् गुरौ तिष्ठति संत्र्याते गच्छन् ब्रुवाणे विनयेन शृण्वन् ।
अनुच्यमानोऽपि हितं विधत्ते यच्चाहितं तच्च तनोति नास्य ॥ ७४

तस्मिन् कदाचन विनेयवरे स्वशाटीप्रक्षालनाय गतवत्यपवर्तनीगाः ।
व्याख्यानकर्मणि तदागममीक्षमाणो भक्तेषु वत्सलतया विललम्ब एषः ॥

शान्तिपाठमथ कर्तुमसंख्येषू व तेषु स विनेयवरेषु ।
स्थीयतां गिरिरपि क्षणमात्रादेष्यतीति समुदीरयति स्म ॥ ७६

तां निशम्य निगमान्तगुरूक्ति मन्दधीरनधिकार्यपि शास्त्रे ।
कि प्रतीक्ष्यत इति स्म ह भित्ति: पद्मपादमुनिना समदर्शि ॥ ७७