पृष्ठम्:शङ्करदिग्विजयः.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
126
[ द्वादशः
श्रीमच्छङ्करदिग्विजये

नाहं जड: किन्तु जड:प्रवर्तते मत्संनिधानेन न सन्दिहे गुरो ।
ऋषडूर्मिषड्भावविकारवर्जितं सुखैकतानं परमस्मि तत्पदम् ॥५५

ममेव भूयादनुभूतिरेषा मुमुक्षुवर्गस्य निरूप्य विद्वन् ।
पद्यैः परैर्द्वादशभिर्वभाषे चिदात्मतच्वं विधुतप्रपञ्चम् ॥५६

प्रकाशयन्ते परमात्मतत्त्वं करस्थधात्रीफलवद्यदेकम् ।
श्लोकास्तु हस्तामलकाः प्रसिद्धास्तत्कर्तुराख्यापि तथैव वृत्ता ॥५७

विनोपदेशं स्वत एव जातः परात्मवोधो द्विजवर्यसुनोः ।
व्यस्मेष्ट सम्प्रेक्ष्य स देशिकेन्द्रो न्यधात्स्वहस्तं कृपयोत्तमाङ्गे ॥५८

सुते निवृत्ते वचनं बभाषे स देशिकेन्द्रः पितरं तदीयम् ।
वस्तुं न योग्यो भवता सहायं न तेऽमुनाऽर्थो जडिमास्पदेन ॥५९

पुराभवाभ्यासवशेन सर्वे स वेत्ति सम्पङ् न च वक्ति किंचित् ।
नो चेत्कथं स्वानुभवैकगर्भपद्यानि भाषेत निरक्षरास्यः ॥ ६०

न सक्तिरस्यास्ति गृहादिगोचरा नात्मीयदेहे भ्रमतोऽस्य विद्यते ।
तादात्म्यताऽन्यत्र ममेति वेदनं यदा न सा स्वे किमु बाह्यवस्तुषु ॥ ६१

इतीरयित्वा भगवान् द्विजात्मजं ययौ गृहीत्वा दिशमीप्सितां पुनः ।
विप्रोऽप्यनुव्रज्य ययौ स्वमन्दिरं कियत्मदेशं स्थिरधीबहुश्रुतः ॥ ६२

ततः शतानन्दमहेन्द्रपूर्वैः सुपर्वबृन्दैरुपगीयमानः ।
पद्मांघिमुख्यैः सममाप्तकामक्षोणीपतिः शृङ्गगिरिं प्रतस्थे ॥६३

यत्राधुनाऽप्युत्तममृष्यशृङ्गस्तपश्चरत्यात्मभृदन्तरङ्गः ।
संस्पर्शमात्रेण वितीर्णभद्रा विद्योतते यत्र च तुझ्भद्रा ॥६४

अभ्यागता चल्पितकल्पशाखा: कूलंकषाधीतसमस्तशीखाः ।
इज्याशतैर्यत्र समुल्लसन्तः शान्तन्तराया निवसन्ति सन्तः ॥ ६५

  • (1) जन्म, (2) मरणम्, (3) क्षुत्, (4) पिपासा, (5) शोकः,

(6) मोहः इति षडूर्मयः । (1) जायते, (2) अस्ति, (3) वर्धते, (4) परिणमते,
(5) अपक्षीयते, (6) नश्यति इति षट्भावविकाराः ॥