पृष्ठम्:शङ्करदिग्विजयः.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १२]
125
हस्तामलंकादीनां शिष्यत्वेन ग्रहणम्

तत्र द्विजः कश्चन शास्त्रवेदी प्रभाकराख्यः प्रथितानुभावः ।
प्रवृत्तिशास्त्रैकरत: सुबुद्धिरास्ते ऋतून्मीलितकीर्तिबृन्दः ॥४३

गावो हिरण्यं धरणी समग्रा सद्बान्धवा ज्ञातिजनाश्च तस्य ।
सन्त्येव किं तैर्न हि तोष एभिः पुत्रो यदस्याजन मुग्धचेष्टः ॥ ४४

न बक्ति किंचिन्न शृणोति किंचित् ध्यायन्निवास्ते किल मन्दचेष्टः ।
रूपेषु मारो महसा महस्वान् मुखेन चन्द्रः क्षमया महीसमः ॥

ग्रहग्रहात् किं जडवद्विष्टने किंवा स्वभावादुत पूर्वकर्मणः ।
संचिन्तयंस्तिष्ठति तत्पिताऽनिशं समागतान् प्रष्टुमना बहुश्रुतान् ॥ ४६

शिष्यैः पशिष्यैर्बहुपुस्तभारैः समागतं कञ्चन पूज्यपादम् ।
शुश्राव तं ग्राममनिन्दितात्मा निनाय सुनुं निकटं स तस्य ॥ ४७

न शुन्यद्दस्तो नृपमिष्टदैवं गुरुं च यायादिति शास्त्र वित् स्वयम् ।
सोपायन: प्राप गुरुं व्यशिक्षणत् फलं ननामास्य च पादपङ्कजे ॥४८

अनीनमत्तं च तदीय पादयोर्जडाकृति भस्मनिगूढवह्निवत् ।
स नोदतिष्ठत् पतित: पदाम्बुजे प्रायः स्वजाड्यं प्रकटं विधित्सति ॥ ४९

उपात्तहस्त : शनकैरवाङ्मुखं तं देशिकेन्द्र : कृपयोदतिष्ठिपत् ।
उत्था पिते स्वे तनये पिताब्रवीत् वद प्रभो जाड्यममुष्य किंकृतम् ॥ ५०

वर्षाण्यतीयुर्भगवन्नमुष्य पञ्चाष्ट जातस्य विनाऽवबोधम् ।
नाध्यैष्ट वेदानलिखच्च नार्णानचीकरं चोपनयं कथञ्चित् ॥५१

क्रीडापर : क्रोशति बालवर्गस्तथाऽपि न क्रीडितुमेष याति ।
बाला: शठा मुग्धमिमं निरीक्ष्य सन्ताडयन्तेऽपि न रोषमेति ॥ ५२

भुङ्गे कदाचिन्न तु जातु भुङ्गे स्वेच्छाविहारी न करोति चोक्तम् ।
तथापि रुष्टेन न ताड्यतेऽयं स्वकर्मणा वर्धत एव नित्यम् ॥ ५३

इती र यित्वोपरते च विमे पमच्छ तं शङ्करदेशिकेन्द्रः ।
कस्त्वं किमेवं जडवत् प्रवृत्तः स चाब्रवीद्वालवपुर्महात्मा ॥ ५४