पृष्ठम्:शङ्करदिग्विजयः.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
128
[ द्वादशः
श्रीमच्छङ्करदिग्विजये

तस्य गर्वमपहर्तुमखर्व स्वाश्रयेषु करुणातिशयाच्च ।
व्यादिदेश स चतुर्दश विद्याः सद्य एव मनसा गिरिनाने ॥७८

सोऽधिगम्य तदनुग्रहमत्र्यं तत्क्षणेन विदिताखिलविद्यः ।
ऐट्ट देशिकवरं परतस्वव्यञ्जकैललिततोटकवृत्तैः ॥७९

श्रीमदेशिकपादपङ्कजयुगी मूला तदेकाश्रया
तत्कारुण्यसुधावसेकसहिता तद्भक्तिसद्हरी ।
हृयं तोटकवृत्तवृन्तरुचिरं पद्यात्मकं सत्फलं
लेभे भोक्तुमनोतिसत्तमशुकैरास्वाद्यमानं मृहुः ॥८०

येनौन्नत्यमवापिता कृतपदा कामं क्षमायामियं
निःश्रेणि: पदमुन्नतं जिगमिषोयम स्पृशन्ती परम् ।
वंश्या काप्यपरीकृत त्रिभुवनश्रेणी गुरूणां कथं
सेवा तस्य यतीशितुर्न विरलं कुर्वीत गुर्वी तमः ॥८१

अथ तोटकवृत्तपद्यजातैरयमज्ञातसुपर्वसूक्तिकोऽपि ।
दययैव गुरोस्खयी शिरोऽर्थं स्फुटयन्नैक्षि विचक्षणः सतीर्णैः ॥८२

अथ तस्य बुधस्य वाक्यगुम्भं निशमय्यामृतमाधुरी धुरीणम् ।
जलजांघ्रिमुखाः सतीर्थ्यवर्याः स्मयमन्वस्य सविस्मया बभूवुः ॥ ८३

भक्त्युत्कर्षात् प्रादुरासन्यतोऽस्मात्पद्यान्येवं तोटकाख्यानि सन्ति ।
तस्मादाहुस्तोटकाचार्यमेनं लोके शिष्टाः शिष्टवंश्य मुनीन्द्रम् ॥ ८४

अद्यापि तत्मकरणं प्रथितं पृथिव्यां तत्संज्ञया लघु महार्थमनल्पनीति ।
शिष्टैर्गृहीतमतिशिष्टपदानुविद्धं वेदान्तवेद्यपरतत्त्वनिवेदनं यत् ॥ ८५

तोटकाइयमवाप्य महर्षेः ख्यातिमाप स दिशासु तदादि ।
पद्मपादसदृशप्रतिभावान् मुख्य शिष्यपदवीमपि लेभे ॥८६

पुमर्थाथत्वारः किमुत निगमा ऋक्यभृतयः
प्रभेदा वा मुक्तेर्विमलतरसालोक्यमुखराः ।
मुखान्याहो धातुश्चिरमिति विमृश्याथ विबुधा
विदुः शिष्यान् हस्तामलकमुखराञ्छङ्करगुरोः ॥८७