पृष्ठम्:शङ्करदिग्विजयः.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
100
[नवमः
श्रीमच्छङ्करदिग्विजये

कलाः कियन्त्यो वद पुष्पधन्वनः किमात्मिकाः किंच पदं समाश्रिताः ।
पूर्वे च पक्षे कथमन्यथा स्थितिः कथं युक्त्यां कथमेव पूरुषे ।

नेतीरितः किंचिंदुवाच शङ्करो विचिन्तयन्नत्र चिरं विचक्षणः ।
तासामनुक्तौ भविताऽल्पवेदिता भवेत्तदुक्तौ मम धर्मसंक्षयः ॥

इति संविचिन्त्य स हृदाऽऽशु तदाऽनवबुद्धपुष्पशरशास्त्र इव ।
विदितागमोऽपि सुरिरक्षयिषुर्नियमं जगाद जगति व्रतिनम् ।। ७१.

इह मासमात्रमवधिः क्रियतामनुमन्यते हि दिवसस्य गणः ।
तदनन्तरं सुदति हास्यसि भोः कुसुमास्त्रशास्त्रनिपुणत्वमपि ॥

उररीकृते सति तथेति तयाऽऽक्रमते स्म योगिमृगराड् गगनम् ।
श्रुतविग्रहः श्रुतविनेययुतो दधदभ्रचारमथ योगदृशा ॥ ७३

स ददर्श कुत्रचिदमर्त्यमिव त्रिदिवच्युतं विगतसत्वमपि ।
मनुजेश्वरं परिवृतं प्रलपत्प्रमदाभिरार्तिमदमात्यजनम् ॥ ७४

अथो निशाखेटवशादटव्यां मुले तरोर्मोहवशात्परासुम् ।
तं वीक्ष्य मार्गेऽमरुकं नृपालं सनन्दनं प्राह स संयमीन्द्रः ।। ७५

सौन्दर्यसौभाग्यनिकेतसीमाः परःशता यस्य पयोरुदृक्ष्यः ।
स एव राजाऽमरुकाभिधानः शेते गतासुः श्रमतो धरण्याम् ॥ ७६

प्रविश्य कायं तमिमं परासोनृपस्य राज्येऽस्य सुतं निवेश्य ।
योगानुभावात्पुनरप्युपैतमुत्कण्ठते मानसमस्मदीयम्

अन्यादृशानामदसीयनानाकुशेशयाक्षीकिलकिञ्चितानाम् ।
सर्वज्ञतानिर्वहणाय सोऽहं साक्षित्वमप्याश्रयितुं समीहे ॥

इत्यचिवांसं यतितल्लजं तं सनन्दनः प्राह ससान्त्वमेनम् ।
सर्वज्ञ नैवाविदितं तवास्ति तथाऽपि भक्तिर्मुखरं तनोति ॥

मत्स्येन्द्रनामा हि पुरा महात्मा गोरक्षमादिश्य निजाङ्गगुप्त्यै ।
नृपस्य कस्यापि तनुं परासोः प्रविश्य तत्पत्तनमाससाद ॥