पृष्ठम्:शङ्करदिग्विजयः.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ९]
101
श्रीमदाचार्यसरस्वतीसंवादः

भद्रासनाध्यासिनि योगिवर्ये भद्राण्यनिद्राण्यभवन्प्रजानाम् ।
ववर्ष कालेषु वलाहकोऽपि सस्यानि चाशास्यफलान्यभूवन् । ८१

विज्ञाय विज्ञाः सचिवा नृपस्य काये प्रविष्टं कमपीह दिव्यम् ।
समादिशत्रजसरोरुहाक्षी: सर्वात्मना तस्य वशीक्रियायै ॥
८२
संगीतलास्याभिनयादिकेषु संसक्तचेता ललितेषु तासाम् ।
स एष विस्मृत्य पुनः समाधिं सर्वात्मना प्रकृतवद्धभूव ॥ ८३

गोरक्ष एषोऽथ गुरोः प्रवृत्तिं विज्ञाय रक्षन् बहुधाऽस्य देहम् ।
निशान्तकान्तानटनोपदेष्टा नितान्तमस्याभवदन्तरङ्गः ॥ ८४

तत्रैकदा तत्त्वनिबोधनेन निवृत्तरागं निजदेशिकं सः ।
योगानुपूर्वीमुपदिश्य निन्ये यथापुरं प्राक्तनमेव देहम् ।। ८५

हन्तेदृशोऽयं विषयानुरागः किंचोर्ध्वरेतोव्रतखण्डनेन ।
किं नोदयेत्किल्बिषमुल्बणं ते कृत्यं भवानेव कृतीं विवेक्तुम् ॥

व्रतमस्मदीयमतुलं क्व महत् क्व च कामशास्त्रमतिगह मिदम् ।
तदपीष्यते भगवतैव यदि ह्यनवस्थितं जगदिहैव भवेत् ॥ ८७

अधिमेदिनि प्रथयितुं शिथिलं धृतकङ्कणस्य यतिधर्ममिमम् ।
भवतः किमस्त्यविदितं तदपि प्रणयान्मयोदितमिदं भगवन् । ८८

स निशम्य पद्मचरणस्य गिरं गिरति स्म गीष्पतिसमप्रतिभः ।
अविगीतमेव भवता फणितं शृणु सौम्य वच्मि परमार्थमिदम् ॥ ८९

असङ्गिनो न प्रभवन्ति कामा हरेरिवाभीरवधूसखस्य ।
वज्रोलियोगप्रतिभूः स एष वत्सावकीर्णित्वविपर्ययो नः ॥

सङ्कल्प एवाखिलकाममूलं स एव मे नास्ति समस्य विष्णोः ।
तन्मूलहानौ भवपाशनाशः कर्तुः सदा स्याद्भवदोषदृष्टेः ॥ ९१

अविचार्य यस्तु वपुराद्यहमित्यभिमन्यते जडमतिः सुदृढम् ।
तमबुद्धतत्वमधिकृत्य विधिप्रतिषेधशास्त्रमखिलं सफलम् ।। ९२